Book Title: Jin Stotra Kosh
Author(s): Chandrodayvijay, Suryodayvijay
Publisher: Kot Tapgacch Murtipujak Shwetambar Jain Sangh

View full book text
Previous | Next

Page 65
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ५६ श्रीजिनस्तोत्रकोशः मुद्रानाशेक्षितेऽन्यैः पतिभिरियमयीदम्पदार्थों यथाऽज्ञैः सूच्यग्रे कूपषदं तदुपरि नगरं तत्र वार्द्धिस्ततोऽद्रिः ॥९॥ यत्सम्यक्त्वात्प्रतीमः शिवदमनुपमं त्वादृशामाप्तभावं, तस्मै ते शासनायामितकुमतमहापाशहर्त्रे नमोऽस्तु। पश्यामः सत्यभावं किमपि परमते नैतदर्थे यथाऽज्ञाः सूच्यग्रे कूपषदं तदुपरि नगरं तत्र वार्द्धिस्ततोऽद्रिः॥ १० ॥ भव्यानां मोक्षसिद्ध्यै त्वदुदितचरणश्रीतटे षड्व्रतीष्टे कूपारोपागुणोधैर्नगरितसकलादेशभङ्गीमयोक्तिः। षट्कायाराधनाब्धिः सदवहितमनोद्रिस्ततोऽदो भवतिक सूच्यग्रे कूपषटुं तदुपरि नगरं तत्र वार्द्धिस्ततोऽद्रिः ॥ ११ ॥ हेयादेयत्वतस्ते गिरि जिन ! भविनां बोधनायाविरासीत् षसिद्धान्तीह कूपप्रतिकृतिरखिलार्थाम्बुभिर्युक्तिदृङ्गा । सम्बन्धाब्धिः स्वतीर्थाधिपतिसदचलस्तेन जज्ञे किमेवं सूच्यग्रे कूपषटुं तदुपरि नगरं तत्र वार्द्धिस्ततोऽद्रिः॥१२॥ भर्तस्ते द्वादशाङ्गीमयगिरि परितः पइरसीकूपरूपा दिव्यास्वादेन भव्योपकृतिकृतिपराऽजन्यसौ सत्यदृङ्गा । सौख्यानन्त्याधिरुच्चैः शिवपदमहिमाद्रिः किमेवं ततोऽभूत्, सूच्यने कूपषदं तदुपरि नगरं तत्र वार्द्धिस्ततोऽद्रिः ॥ १३ ॥ श्रीवीरस्य प्रशस्यश्रमणपरिवृतस्याग्रतो लास्यपूजां कृत्वा सूर्याभदेवः सुलभशिवपदं सन्तनोति स्म यद्वत् । तद्वत् कश्चित्सुरस्ते पुर इन ! तनुते किं न नृत्यं तदेतत् सूच्यग्रे कूपषवं तदुपरि नगरं तत्र वार्द्धिस्ततोऽद्रिः ॥१४॥ सिद्ध्यै ध्यायाम्यहं ते समवसृतिमहादुर्गभित्तिस्वरूपं, याता यास्यन्ति जग्मुः शिवपदपदवीं वीक्ष्य यत्रैकमव्याः। चित्रश्चित्रविचित्रं यदखिलसुखदं चाजनीदं यथास्मिन् सूच्यग्रे कूपषदं तदुपरि नगरं तत्र वार्द्धिस्ततोऽद्रिः ॥ १५ ॥ भिन्नां भर्तः समूलं निजपरविषयां तीक्ष्णसंसारसंस्थां, षड्लेश्याकूपरूपां समविषमभवश्रेणिदृङ्गां त्वयेमाम् । For Private and Personal Use Only

Loading...

Page Navigation
1 ... 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101