Book Title: Jin Stotra Kosh
Author(s): Chandrodayvijay, Suryodayvijay
Publisher: Kot Tapgacch Murtipujak Shwetambar Jain Sangh

View full book text
Previous | Next

Page 88
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ७ श्रीनारङ्गपार्श्वदेवाधिदेवस्तोत्रम् जीरापल्यभिधाभिधेयमहिमाऽऽमान्यः स पार्यक्रमः पार्श्वः पार्श्वगसम्पदः समसुखं दत्ते यथा सर्वतः । श्रीपञ्चासरसञ्ज्ञकः कलियुगे पायो यथा सिद्धिदः सौभाग्याभ्युदयप्रदोऽपि च यथा पार्हो भटेवाभिधः॥३॥ भाभाको नवपल्लवश्च गउडी भर्त्तान्तरीकाधिपः। श्रीसंखीसर इत्यनेककलनोल्लासीह पार्थो यथा। सर्वाशापरिपूरकोऽस्ति परितस्तद्वजगच्छंपदै स्त्वं सम्प्रीणय सम्प्रति प्रतिपदं नारङ्गपार्बोत्तमः॥४॥ यस्यात्यद्भुतजात्यसहुणगणोऽनन्तत्वसङ्ख्याश्रयं शिश्रायामितदुस्तराम्भवभवां दुष्कर्ममर्मस्थितिम् । पेषम्पेषमनन्तसङ्ख्यभविनां किं योगपद्यादिव श्रेयःपूतगतिं विधातुमिह सःसार्वोऽस्तु सिध्यै सताम् ॥५॥ श्रीधर्मावनिपो वसन् वरपुरे यस्य प्रशस्यस्थितीन् पत्राकारयतीव किं स्वककरैः स्थातुं स्फटव्याजतः। सप्तद्वीपमहीमहामहरमां मान्यां वदान्यैरिमां श्रीनारङ्गविभुः प्रभूतविभुताभूत्यै स भूयाद्भुवि ॥ ६ ॥ पादौ पादतरौ करौ सुखकरौ नेत्रे प्रसन्नोज्वले चेतः शान्तकृपारसप्रसरणं वक्त्रं प्रसन्नप्रभम् । भालं भाग्यकलाकलं गुणमयाकारप्रतीकेति ते ___ दृष्टा मूर्तिरमूर्तमौक्तिकसुखं केषां न दत्ते विभो! ॥७॥ देवाः केचन दूरदर्शिन इमे नो केचन स्त्रीरताः शस्त्रव्यग्रकराश्च केचन पुनर्नानावतारादराः। केचित्केचन सृष्टिसंहृतिपराः केचित्स्वयं नर्तिनो मिथ्यैताः सुरजातयस्तु सुगुणैस्त्वं सत्यदेवः प्रभो !॥८॥ यन्माहात्म्यमहाद्भुतातिशयतः सर्वोपतापापदो दृष्टादृष्टभियो भियेव भविनां नश्यन्ति रिष्टेतयः। तन्नाश्चर्यमनन्तमङ्गलसुखास्वादप्रदानात्मकः स श्रीपार्श्व ! जगत्रयावनपदव्येकवती त्वं हि यत् ॥९॥ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101