Book Title: Jin Stotra Kosh
Author(s): Chandrodayvijay, Suryodayvijay
Publisher: Kot Tapgacch Murtipujak Shwetambar Jain Sangh
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रीजिनस्तोत्रकोशः शासनं द्रव्यभावस्तवालङ्कतं देशतः सर्वतः संयमोपासनम् । साम्प्रतं स्यात्तदैवार्हता!चितो द्रव्यतोऽङ्गीक्रियेत प्रधानो विधिः९ यामाराध्याभ्यधिकविधिना श्रेणिकाद्या नरेन्द्राः
प्रापुः पूज्याभयदपदवीमक्षयक्षायिकाख्याः। श्रीदेवार्यक्रमणकमलोपासनावासनाक्ताः - संसेवन्ते सुकृतरसिकाः केऽहतामहणां ताम् ॥ १०॥ त्रिशराष्टविधा तथा बहूचितभेदा विविधाधिकारिभिः। विहिता सकलांहसां हतिं तनुतेऽर्चाऽभय देषु सर्वदा ॥ ११ ॥
भुवनत्रयनित्यचैत्यगाः
प्रतिमा अप्रतिमप्रभावकाः। प्रणमामि मुदार्चनादिभिः
करणैर्निर्वृतिशर्मसम्पदे ॥ १२ ॥ श्रीवैकुण्ठः सुगुरुयतिनां वन्दनैर्दुर्गतीस्ता,
श्चिच्छेद श्रीजिनबलिविधेरादधौ क्षायिकाद्यम् । श्रीश्रेयांसः सरसमनसा पात्रदानं व्यपाद्यत् तस्य श्रेयः सुखपदमभूत्तत्र पूजानुभावः ॥ १३ ॥
श्रीसूर्याभः स्वर्गिमुख्यः सुरा
वीरस्याग्रे साधुराजीवृतस्य । दिव्यं लास्यं भूरिभङ्गीप्रभेदै
श्चके कारीशेन तस्यैककृत्यम् ॥ १४ ॥ अर्हत्पूजा जयति जयदाबाधमाराध्यसाध्या
नानाभेदोदितविधिधिया शुद्धबोधिप्रबोधा। दुष्टादृष्टप्रकृतिविकृति प्रत्यहं संक्षिपन्ती त्रैलोक्यस्थासुरसुरनरैः सर्वदा सेव्यमाना ॥ १५ ॥ अर्हणाऽऽर्हतमतेऽहतां द्विधा
सङ्गतागमविवेकलोकनैः। साधिताधिकृतसजनैर्मुदा भुक्तिमुक्तिसुखसम्पदे जयेत् ॥ १६ ॥
For Private and Personal Use Only

Page Navigation
1 ... 97 98 99 100 101