Book Title: Jin Stotra Kosh
Author(s): Chandrodayvijay, Suryodayvijay
Publisher: Kot Tapgacch Murtipujak Shwetambar Jain Sangh

View full book text
Previous | Next

Page 100
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ग्रन्थप्रशस्तिः त्रैलोक्ये लोककोकप्रकटसरसतापुष्टिसृष्टिप्रकृष्टा दिव्यश्री सत्यजात्यामृतरसलहरी पापतापोपशान्तौ । मुक्तिस्त्रीसन्धिदूतीहितनिखिलसुखाकर्षणस्वर्गिरत्नम् देयादानन्दसम्पत्पदमुदिततमं सा सपर्या जिनानाम्॥१७॥ यस्तनोत्युदितसम्पदे मुदा सर्वसार्वचरणार्च(?)मम्बुजैः। तन्तनीति सततं ततां श्रियम् स्वात्मनीह स नरो भवे भवे ॥ १८ ॥ यः श्रीसार्वसपर्ययेति तु तयाऽऽत्मानं पुनात्याहता, नन्ता हितसम्पदर्पणतया पूर्वधुरत्नाभया। सेवन्ते तमुदारहर्षविनयश्रीसूरितं सर्वदा नन्दस्पन्दमहोदयाः समुदिताः श्रीधर्महंसश्रियः॥ १९ ॥ ॥ इति श्रीतीर्थराजाधिराजपूजातिशयस्तोत्रम् ॥ ५८ ॥ अथ ग्रन्थप्रशस्तिः॥ यथातथार्थसद्भावविभावनैः सतां पुरः। जिनोक्ततत्त्वसुश्रद्धाधानराधनसाधनैः॥१॥ शब्दापशब्दसंशब्दैर्लक्ष्यलक्षणलक्षणैः । शुद्धधीनिधिभिः साध्यः पवित्रो यः समुद्भवेत्॥२॥ युग्मम्॥ यश्च सर्वार्थसंसिद्धिं कल्पवल्लीव यच्छति । स्वर्गापवर्गसद्भोगारोग्यसौभाग्यभाग्यदः ॥ ३ ॥ तर्कलक्षणसाहित्यसिद्धान्तार्थानुवादिताम् । यः संवदेत्सदाचारविचारविदुषां पुरः॥ ४॥ मुख्यपलाक्षणिकरव्यङ्ग्यव्यञ्जक३ध्वनिभावनैः । भरतादिचक्रिर्भूपैः केशवैः प्रतिकेशवैः ॥ ५॥ यद्विधानावधानस्थैर्निर्जरार्जनजम्पदम् । निर्जरं निर्जनिज्यायोऽर्जितं जितद्विधारिभिः ॥६॥ युग्मम् ॥ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 98 99 100 101