Book Title: Jin Stotra Kosh
Author(s): Chandrodayvijay, Suryodayvijay
Publisher: Kot Tapgacch Murtipujak Shwetambar Jain Sangh
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रीतीर्थराजाधिराजपूजातिशयस्तोत्रम् अर्हतामर्हणा गर्हणीया कदाप्यस्ति नैवाहणीयागमैराहतैः । येन पूजैव पूज्यत्वभावोद्भवे विद्यते सत्यकल्कस्वभावोद्गमा ॥२॥
द्रव्यभावस्तवद्योतिनी देशतः
सर्वतः सद्विरत्यादृतिः सङ्गता। अन्यथा तथ्यपथ्यप्रथा संस्थिता,
स्ताः क्रिया निष्फलास्तेन पूजा जयेत् ॥३॥ द्रौपद्याद्या सदयविशदा दर्शनोहयोतदीप्रा,
स्तत्त्वातत्त्वव्यतिकररसाः स्वादलुब्धस्वचित्ताः । भक्तिव्यक्त्या महिमसुभगां जैनचैत्योचितार्चाम् यामाकार्षुः शिवसुखखनि तां न कः श्रद्दधीत ॥ ४ ॥ विद्याजवाचारणश्रीमुनीशै,
नित्यस्थानस्थायिचैत्यावलीनाम् । सेवां कृत्वा वन्दनादिप्रयोगैः
सौवाचाराश्चारु शौचीक्रियन्ते ॥ ५॥ पूजाद्वैतोदारसारानुमोदो,
पास्तिभ्यां श्रीआशया सङ्घसङ्घः । श्रीसम्यक्त्वं ज्ञानचारित्ररत्नम्
मोक्षश्रीदं संविधीयेत शुद्ध्या ॥६॥ कल्याणाली ललनमभितः सर्वसम्पद्विलासा
निष्प्रत्यूहं महिमपदवीसौख्यपोषप्रकर्षाः । स्थाने स्थाने सरससुभगाभोगभोगप्रयोगाः सम्पद्यन्तेऽभयद ! विशदार्चाप्रचारेण पुंसाम् ॥ ७ ॥
श्रीजिनपूजनमद्भुतसम्पत्__ सौख्यविशेषनिषेचककल्कम् । नौमि कलाकलताकलनाभम् शुद्धविधेः शिवदं विहितं सत् ॥ ८॥
For Private and Personal Use Only

Page Navigation
1 ... 96 97 98 99 100 101