Book Title: Jin Stotra Kosh
Author(s): Chandrodayvijay, Suryodayvijay
Publisher: Kot Tapgacch Murtipujak Shwetambar Jain Sangh
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
८८
www.kobatirth.org
श्रीजिनस्तोत्रकोशः
Acharya Shri Kailassagarsuri Gyanmandir
हेयादेयतया चतुर्विधभिदं सज्ञाकपायाश्रयम् दुस्त...... चतुधर्म संवर समाध्या सेव्यशय्याश्रमम् । किं वक्तुं युगपद्भिरेव भविनां व्याख्यावनीस्थश्चतूरूपं यः स्वयमाश्रयच्छ्रितहितं तन्यात्स वीरप्रभुः ॥ ११ ॥ त्वं श्रीबम्भणवाटका भगवन्नाथोऽसि मे त्वं गुरु
स्त्वं देवद्रमणीगवी निपमहाभावोऽपि विश्वार्थदः । त्वं सेव्योऽसि जगत्रयेऽपि सुखकृत्त्वं सगुणस्त्वं भवात् त्राता त्वं भविनो महोदयपदं त्वं सर्वबन्धुः प्रभो ! ॥ १२ ॥ यः स्वैश्वर्यनिधिः श्रितेषु सुभगारोग्यादिसम्पत्प्रदो
राज्यप्राज्य कुटुम्बसन्ततिपदप्रष्ठप्रतिष्ठापटुः । कीर्तिस्फूर्तिकलाविलासकलनः कैवल्यशालं यतः
स श्रीबम्भणवाट कातसफलः सद्भिस्ततस्त्वं श्रितः ॥ १३ ॥ यस्त्रैलोक्यविलोकि केवलकलाशाली सुरा यं श्रिता
येनाख्यायि सुशासनं त्रिजगती यस्मै नमस्येद्यतः । सिद्र्यध्वाऽजनि यस्य चारु चरणं यस्मिन्ननन्ताः श्रियः
श्रीबम्भणवाट काहविजयी जीयात्स वीरश्चिरम् ॥ १४॥ इत्थं भक्तिसुयुक्ति हर्षविनयश्रीसूरिपूज्यस्थिति, -
नतः स्तोत्रपथं पथं शिवपुरस्त्वं मे प्रसीद प्रभो ! स श्रीबम्भणवाट काह्रसुयशः श्रीवीर शश्वद्यथा, - नन्तश्री पदधर्महंसम हिमः स्याद्बोधिबीजोदयः ॥ १५ ॥ ॥ इत्यष्टम्यां श्रीबम्भणवाटकश्री महावीरस्तोत्रम् ॥ ५७ ॥
अथ श्रीतीर्थराजाधिराजपूजातिशयस्तोत्रम् ॥ ५८ ॥ यस्यां वश्या विशदविधिना वन्दनप्रत्ययाद्यैः कायोत्सर्गप्रकटितपटुद्रव्यपूजानुमोदैः । भव्याभव्याभिमतसुफलान्यामुवन्त्यद्भुता नि
श्री सार्वानां वपुषि सुषमापोषिपूजां श्रये ताम् ॥ १ ॥
For Private and Personal Use Only

Page Navigation
1 ... 95 96 97 98 99 100 101