Book Title: Jin Stotra Kosh
Author(s): Chandrodayvijay, Suryodayvijay
Publisher: Kot Tapgacch Murtipujak Shwetambar Jain Sangh

View full book text
Previous | Next

Page 95
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ८६ श्रीजिनस्तोत्रकोशः श्रीसम्यक्त्वमिदं यदुक्तमसमं भव्यात्मनां सेवितम् किं किं कामितमातनोति न यथा ज्ञानं चरित्रं तथा । युक्तं तद्यदिहास्ति सत्यमयतां सर्वात्मना सन्दधत् यः स्वस्मिंश्च परेषु गौडिकविभुर्दद्यात्स मे सम्पदम् ॥ ९ ॥ षड्द्रव्यं नयभावनाभिमतसत्तं नन्दतत्त्वं जग, नित्यानित्यमयं प्रमाणयुगलीमेयं महायुक्तिभिः। आदेशद्वयसप्तभङ्गरचनावाच्यं विभो ! दीदिशो यत्त्वं युक्तमिदं यथास्थितविदः सत्यार्थवाक् त्वं यतः ॥१०॥ इत्थं पूज्यपदस्थहर्षविनयश्रीसूरिसेवोचितम् नीत्वा स्तोत्रपथं भवन्तमुदितानन्दोदयादन्वहम् । याचेऽहं वरबोधिबीजपदवीलब्धि प्रभो! गौडिक ! श्रीपार्श्व!श्रितधर्महंसमहिमां सौभाग्यभाग्याकरम् ॥११॥ ॥ इति श्रीगौडिकश्रीपार्श्वनाथस्तोत्रम् ॥ ५६ ॥ अथ श्रीबम्भणवाटकश्रीमहावीरस्तोत्रम् ॥ ५७॥ कम्रानम्रसुरासुरेश्वरशिरःकोटीरकोटीतटी, निष्ठानेकमणीघृणीनपितवत्पादानशोभोत्सवम् । सर्वानन्दपदार्पणेऽमिततयाऽपूर्वैकचिन्तामणि तं श्रीबम्भणवाटकायततख्यातिस्थवीरं स्तुवे ॥१॥ यः सिंहं जयति स्म सर्वविजयिस्वोजःश्रिया किं ध्वज,___ व्याजेनेव ततस्तदुत्तमतरः सम्पत्पदात्याऽप्ययम् । यत्सेवां तनुते हृदुन्नतमुदा स्पष्टैकशिष्टेष्टदाम् श्रीमद्वम्भणवाटकाबविजयी वीरः स वोऽव्याद्विभुः॥२॥ यन्माहात्म्यमहो! महामयजलव्यालानलेभद्विषत्, सिंहस्त्येनरणादिभीभिदभयानन्दप्रदं प्राणिनाम् । यजागर्ति किमद्भुतं तदसि यत्त्वं सार्व! सर्वात्मना भित्त्वा भीतिपदानि शम्पद निधिः शश्वत्त्वदेकप्रभोः ॥३॥ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 93 94 95 96 97 98 99 100 101