Book Title: Jin Stotra Kosh
Author(s): Chandrodayvijay, Suryodayvijay
Publisher: Kot Tapgacch Murtipujak Shwetambar Jain Sangh
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
८४
श्रीजिनस्तोत्रकोशः यङ्यानानुभवाद्भवन्ति भविनां सौभाग्यभाग्यप्रभा,
भोगाभीष्टसुसम्पदोऽपि विपदां नाशः शिवश्री स्वसात् । भातीतीव यशःप्रतापमहिमासम्पन्मयं मूर्तिमद्
यद्भाले तिलकं किमुज्वलमलं लाभाय स स्तात्प्रभुः ॥५॥ यस्योरःस्थललम्बिहारलतिकाभीष्टैः फलैः किं फल
त्येषाऽद्यापि नगोलतेव(?) च भुजद्वन्द्वोङ्गदश्रीरपि। तद्वद्भक्तिमतां न दृक्पथरता किं किं फलं तन्तनी,
त्यानन्त्येन किमुत्तमं स जयतु श्रीपार्श्वविश्वेश्वरः ॥ ६ ॥ यत्पद्मासनसंस्थितिस्थसुमहापर्यस्तिकालङ्कृति,
र्भास्वद्रूपमुखग्रहासुरसुराङ्गाकारदिव्यस्थितिः । किं वक्तीव समस्तदैवतमयत्वं सार्वपादाजगं
पूज्यत्वं च जगत्रयेऽपि तनुतां पार्श्वः स वः सम्पदम् ॥७॥ तत्तल्लक्षणलक्षितांतियुगलं यस्योञ्चजानूजनु
हीजचोरुकटीकरोदरसुहृद्भूभालवक्त्रादिकम् । प्रत्येकं भवभीहरं वरकर चातः परं किं स्तुवे
माहात्म्यं वरकाणकेति सुयशाः पार्श्वः स नः श्रीपदम् ॥८॥ एवं श्रीवरकाणकं वरकरं श्रीपार्श्व विश्वेश्वरम्
नीत्वा स्तोत्रपथं सहर्षविनयश्रीसूरिसंसद्गुणम् । स्वःकुम्भद्रुगवीमणीप्रभृतिसन्माहात्म्यत्रोदयम् याचे श्रीगुरुधर्महंसमहिमं श्रीबोधिरत्नाकरम् ॥९॥
॥ इति श्रीवरकाणकपार्श्वनाथस्तोत्रम् ॥ ५५ ॥
अथ श्रीगौडिकश्रीपार्श्वनाथस्तोत्रम् ॥५६॥ यन्मूर्तेः श्रितशन्निधेर्विधिविदः प्राहुर्मुधाऽमी कुत,
श्चिन्तारत्नतुलां यदैहिकमिदं दत्ते कियश्चिन्तितम् । चिन्तातीतमनन्तमिष्टमुपमेयार्थस्तनोत्यङ्गिनाम्
स श्रीगौडिकपार्श्वपार्श्वमहित त्वं मे प्रसीदोदयैः ॥१॥
For Private and Personal Use Only

Page Navigation
1 ... 91 92 93 94 95 96 97 98 99 100 101