Book Title: Jin Stotra Kosh
Author(s): Chandrodayvijay, Suryodayvijay
Publisher: Kot Tapgacch Murtipujak Shwetambar Jain Sangh
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रीजिनस्तोत्रकोशः नेतर्नाद्भुतमेतदत्र यदमी पुच्छच्छटाच्छोटनै,
मत्तेभादिमदज्वरप्रशमिनः पारीन्द्रका द्वीपिनः । अन्येऽपीदृशराशयः शमरसैः शान्तास्त्वयीशे स्थिते - भव्यानां हृदि यच्छमोदयमयस्तत्त्वप्रभुस्त्वं भुवि ॥ ७ ॥ मातुः स्वप्नदशासु चेच्छुभतयाऽभूवं त्वयीशाऽऽगते
गर्भेऽथाहतसत्पथस्थितिमिमां भुञ्जीय भक्तेऽपि ते । स्वाङ्गीकारमितीव वोढुमसमस्थामोत्सुकः स्वक्रुधा
भेत्तुं विश्वमपि द्विपोऽपि शिवतां तेने भयं नाहते ॥ ८॥ दृष्टादृष्टभयं द्विषन्नृपहयोन्मत्तद्विपस्पन्दना,
ऽऽरावैर्वीरभुजोर्जितैः प्रतिभयं सङ्ख्यातिगं सङ्ख्यगम् । तेषां षाटकुरुते न किन्तु विजितं सत्तजयश्रीकर
येषां चेतसि पार्श्वविश्वभयभित्त्वं सिद्धिदः संवसेः ॥९॥ रोगाद्याधिशमः समाधिविधयः सल्लब्धिधीसिद्धयो
विश्वैश्वर्यमहार्यधैर्यसुयशःश्लाघानचं स्वात्मसात् । स्थानस्थाननिधिः प्रतापपरतेत्याशाजुषां किं न ते
जीरापल्यमिधाभिधेयभगवन्माहात्म्यतः सर्वतः ॥१०॥ स्वोपास्यः सुकृतैः कृतायतिशया वेदाग्नयो वाग्गुणाः __ पश्चत्रिंशदनिन्द्यदानलहरीज्ञानादिकं तारकम् । प्राकारत्रिकमङ्गिमोदकमिति श्रेयोमयोभूर्यतः
स्वामिन्नादित एव मद्रनिधयस्तेनेव किं ते श्रिताः ॥ ११ ॥ प्राचीनेषु भवेष्विहापि च जयश्रीकारमभ्यासिता,
भ्यस्ताङ्ग ! व्यतनोरतीव विविधोपायप्रपञ्चैर्द्विधा । स्वात्मन्याश्रितभावुकेषु च विभो! भव्याजयश्रीपदा,स्मानं त्वत्पदसेवितस्तत इवाभूवन्नवश्यं किमु ॥ १२ ॥
For Private and Personal Use Only

Page Navigation
1 ... 89 90 91 92 93 94 95 96 97 98 99 100 101