Book Title: Jin Stotra Kosh
Author(s): Chandrodayvijay, Suryodayvijay
Publisher: Kot Tapgacch Murtipujak Shwetambar Jain Sangh
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
८
.
श्रीबम्भणवाटकश्रीमहावीरस्तोत्रम् विश्वं विश्वमनाथमस्त्यभयद ! त्वन्नाथसाथै ! विना
सर्वापन्निधिजन्मजातिनिधनक्लेशावलीसंकुलम् । त्रैलोक्येऽसि च यत्त्वमेव शरणं सत्यं च शंशेवधि,
स्तेनार्थित्वमितो भवन्तमधिपं याचे यश श्रीपदम् ॥ ४॥ मूर्तिस्फूर्तिरतीव शंनिधिरियं यस्य प्रशस्यं यशः
सौभाग्यं शिवभोगयोगसुभगं माहात्म्यसद्माह्वयः । शानं ज्ञेयमनन्तवस्तुविषयं ध्यानं मनः पावनम्
स श्रीबम्भणवाटकः पटुपदं दद्यान्मुदां सर्ववित् ॥५॥ किं सौभाग्यमयं महोदयमयं किं सर्वसम्पन्मयम्
किं विद्यात्ममयं किमुज्वलकलालीलामयं किं स्फुरत् । विश्वानन्दमयं किमद्भुतशमश्रीशम्मयं किं सित,___ ध्यानाद्वैतमयं किमित्यधिप! नस्तेऽस्तु श्रिये दर्शनम् ॥६॥ यः पूर्णः करुणागुणेन समदृक् शक्रेऽप्यहो कौशिके
पादस्पर्शिनि सङ्गमादिषु तथा दुष्टेष्वनिष्टायिषु । सर्वाङ्गक्षमिताक्षमप्रकृतिमत् ख्यात्युत्सवायेव किं
वीरः सोऽस्तु मुदे जगजयपदं सान्वर्थसज्ञां दधत् ॥७॥ तत्सत्यं यदचिन्त्यमन्त्रमहिमैश्वर्यं वसत्यद्भुतम्
त्वन्नाम्येव कलावपीश! भविनां तद्ध्यायिनां स्युर्यतः। स्थानस्थाननवीनपीनपदवीसम्पन्महः श्रीयशः
श्रेयः श्रव्यगुणोदया जयमया निर्वाणशंसश्चयाः ॥ ८ ॥ नाथः सार्थक एव यः शिवपथप्रस्थानसंस्थाङ्गिनाम्
योगक्षेमकरत्वतोऽयमजनि स्वामीह सत्यं स्वयम् । निर्नाथ त्रिजगन्निरीक्ष्य विषमं दुःखैः कृपापूरतः
सौख्योपायसमर्पणैरिव किमाधातुं सनाथप्रथम् ॥ ९॥ यन्नामापि पवित्रमन्त्रमहिमारूपं परं पावनम् .
चिन्तामण्यधिकं त्रिलोकहितकृत् ध्यातं भवोत्तारकम् । शुद्धः सिद्धरसः सुवर्णवरणे पुण्यात्मनां स्तान्मुदे स श्रीबम्भणवाटकाह्वयमयः श्रीवर्द्धमानप्रभुः ॥१०॥
For Private and Personal Use Only

Page Navigation
1 ... 94 95 96 97 98 99 100 101