Book Title: Jin Stotra Kosh
Author(s): Chandrodayvijay, Suryodayvijay
Publisher: Kot Tapgacch Murtipujak Shwetambar Jain Sangh

View full book text
Previous | Next

Page 90
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीजीरापल्लीयपार्श्वनाथस्तोत्रम् अथ श्रीजीरापल्लीयपार्श्वनाथस्तोत्रम् ॥ ५४॥ विश्वानन्दसुखोदयाय महिमा यस्योदगात्सर्वत स्त्रैलोक्येऽपि नवीनभानुवदिवाधातुं प्रतिज्ञां निजाम् । भक्तप्राण्यखिलेहितार्पणतया भाव्यं मयेत्यादृताम् ___जीरापल्यधिवासवासितनवस्वाख्यः स पार्श्वः श्रिये ॥१॥ त्वयानप्रभवप्रभावविभया सर्वाङ्गसङ्गिक्षय.. श्वासस्फोटककासकुष्ठखसजाऽसाध्याधिबाध्याङ्गगाः। शोच्यास्तेऽपि भवन्त्यमङ्गविभुताऽऽरोग्यातिभाग्याद्भुता, स्वादाः साम्प्रतमत्र तत्सुखनिधिर्यत्त्वं प्रभो! प्राणिनाम् ॥२॥ मानामेयकुवातवातलहरीरङ्गत्तरङ्गक्षरत्, क्षुब्धक्षोणिधराहतिस्थपुटिते मना इवाब्धाविमे । बोहित्थस्थितयः स्वयं स्युरभयाभन्याभवन्नामस, न्मन्त्रैः पार्श्व! तवोचितं समभयातीतात्मकस्त्वं यतः ॥३॥ कल्पान्तोद्धतवह्निवत्प्रस्मरज्वालावलीढावनी(?) भावः सर्वमिवाजिघत्सुरभितः श्रीपार्श्वदावानलः। जीरापल्यधिपाऽमृतायत इह त्वद्ध्यानालीनात्मनाम् किं चित्रं यदशेषतापशमनं सत्यं त्वमेवामृतम् ॥ ४॥ क्रोधाध्माततयापतत्फणिपतिर्दन्दश्यमानाशया शोणाक्ष्णेव दिदंशिषुर्जगदिदं हालाहलैः स्वैः स्वयम् । त्वद्भक्त्यैव तनूसतां सुमनसां मालायते सार्व यत् तत्स्थाने त्वदुपासनामितफलं दत्ते न किं यत्सुखम् ॥५॥ नो विद्मस्तव पार्श्व ! सेह महिमा कीहक् किमेषौषधी भीमेत्री भविनां सुलब्धिलहरी किं तेजसा वा निधिः । किं विश्वेष्टदवल्लरीति कलनां पाटचरारातयः सर्वस्वापहृतोऽपि यद्धितहृदो मित्रन्त्यहो यद्वशात् ॥६॥ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 88 89 90 91 92 93 94 95 96 97 98 99 100 101