Book Title: Jin Stotra Kosh
Author(s): Chandrodayvijay, Suryodayvijay
Publisher: Kot Tapgacch Murtipujak Shwetambar Jain Sangh

View full book text
Previous | Next

Page 87
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीजिनस्तोत्रकोशः श्रीचिन्तामणिपार्श्व विश्वजयद ! त्वन्नाममन्त्रेण चेत् सर्वाः कामितसिद्धयस्तव नुतेः किं तर्हि सार्वोच्यते । किं त्वेषा भवदीयभक्तिवशतः स्यादाप्तभक्तीरितो यत्त्वां स्तौमि जडोऽप्यहं तदुचितं यद्वाक्फलं सन्नुतेः ॥१२॥ सर्वेषामपि सर्वदोऽस्ययमिति प्रष्ठप्रतिज्ञा प्रभो ! शश्वत्पारयसि प्रभुत्वपदवीशिक्षापरीक्षाक्षमः। सर्वाभीष्टपदानि सम्प्रति तथा शिष्टेषु यत्पूरय, स्येतत्तूचितमत्र पार्श्व ! यदहो त्वं विश्वचिन्तामणिः ॥१३॥ श्रीपार्श्वप्रभुमश्वसेननृपसद्वंशेष्टचिन्तामार्ण तत्त्वातत्त्वसतत्त्वसुस्थितवृषानायस्थितियोमणिम् । सेवे भक्तिसुयुक्तितोऽखिलकलोल्लासत्रियामामणिं वामाकुक्षिमाण तमोगृहमणि नाम्नैकचिन्तामणिम् ॥ १४ ॥ इत्थङ्कारमुदारसारसरसात्मारामभक्त्या स्तुत, स्त्वं चिन्तामणिपार्श्व ! हर्षविनयश्रीसूरितानन्दया त्रैलोक्योदितधर्महंसपदवीमान्यं तथा देहि मे बोधि बुद्धिनिधिं यथातथपथश्रीणां प्रतिष्ठा यथा ॥ १५ ॥ इति श्रीचिन्तामणिपार्श्वदेवाधिदेवस्तोत्रम् ॥ ५२ ॥ अथ श्रीनारङ्गश्रीपार्श्वदेवाधिदेवस्तोत्रम् ॥ ५३॥ यः स्वामित्वपदोचितस्त्रिभुवने सर्वात्मनाऽऽर्यात्मनाम् नित्यानन्ददभोगराविधिना हत्वा कुरङ्गस्थितिम् । कुर्वन् सान्वयसौवनामसुसुखाकर्षीव किं स्वं वपु, र्धत्ते धाविसुधामभिः स तनुतां नारङ्गपार्श्वेश्वरः ॥१॥ स्वामिस्ते सरसामियति जगतां नारङ्गपार्श्व ! प्रभो ! दृष्टाभीष्टविशिष्टशिष्टपदवीदानैः सदादेयताम् । नाश्चर्य तदिदं विनिर्मितवती सा पूर्वचिन्तामणे,श्चिन्तातीतफलप्रदानणुगुणैः सत्पुद्गलैरस्ति यत् ॥२॥ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101