Book Title: Jin Stotra Kosh
Author(s): Chandrodayvijay, Suryodayvijay
Publisher: Kot Tapgacch Murtipujak Shwetambar Jain Sangh

View full book text
Previous | Next

Page 85
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीजिनस्तोत्रकोशः पार्श्व ! त्वं भुवनेषु सर्वद इति ख्याति प्रपन्नोऽसि वा__ऽनन्तैश्वर्यसुसम्पदा पदमसि त्वं शक्त्यनन्तत्वभुक् । यत्तत्प्रीणय सेवकं श्रितमिमं सत्यार्थदानैस्तथा, ऽनन्तश्रीविभवाकरस्त्वमिव सोभक्तो यथा स्यात्प्रभुः॥१७॥ इत्थं श्रीगुरुराजहर्षविनयश्रीसूरिहस्तम्भन ! श्रीपार्श्वेश्वर विश्वहर्षविनयश्रीसूरिपूज्यक्रमः । नीतः स्तोत्रपथं विधेहि विधिना बोधिप्रबोधोदयम् त्रैलोक्योदितधर्महंससरसक्रीडासरः श्रीपदम् ॥ १८ ॥ इति श्रीस्तम्भनश्रीपार्श्वदेवस्तोत्रम् ॥ ५१ ।। अथ श्रीचिन्तामणिपार्श्वदेवाधिदेवस्तोत्रम् ॥५२॥ दानैः पूर्ण इहापरः सुरमणि वास्ति किञ्चिन्मनो___ऽभीष्टप्रापणतो विचिन्त्य किमिवेत्यानन्त्यसहयोचितैः। सौख्यैः पुष्टमनिष्ठमुक्तमखिलं कुर्वन् स्वयं यो जग, चिन्तामण्यभिधां व्यधात्स भविना पार्श्वप्रभुर्भूतये ॥१॥ स्वामिस्तेऽद्भुतमूर्तिरतिशमिनी नेत्रामृतस्यन्दिनी दृष्टानिष्टनिकृष्टकष्टदलिनी शिष्टेष्टशन्मृष्टिकृत्। स्याञ्चेच्चित्रमिदं किमत्र यदियं सत्यामृताणूदिता नन्तानन्तपदप्रदैः सुखदलैः सृष्टैकतीर्थप्रथा ॥२॥ अस्मत्स्वाम्ययमर्थसार्थमखिलं सर्वात्मनोहयोतयं, त्रैलोक्यस्थतमोपहत्वकलया नैते तथा किं मुधा। विश्वोहयोतमदा इमे तदिति किं क्रोधादिवोर्ल्डङ्गता __ जेतुं पूषकरान् यदह्रिनखभा पार्श्वः स दद्यान्मुदम् ॥ ३ ॥ श्रेयः श्रीसरसद्रवेशसमये किं तोरणालीवर स्रक्श्रेणी किमु सम्पदां किमु भवाब्धौ सेतुबन्धोद्भवः। आपत्कूपपतजनोद्धृतिवटीपतिः किमेवं लसेत् यत्पादाब्जनखप्रभासु सुधियां बुद्धिः स पार्श्वः श्रिये ॥४॥ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101