Book Title: Jin Stotra Kosh
Author(s): Chandrodayvijay, Suryodayvijay
Publisher: Kot Tapgacch Murtipujak Shwetambar Jain Sangh
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
६८
श्रीजिनस्तोत्रकोशः कर्ताऽस्म्यहं तेऽम्ब ! गुणार्णवस्य त
संसूचनायेव किमागतो हरिः। यस्यावतारे जननी सुसंलये
स्वप्नस्थितौ तं सततं स्तुवे जिनम् ॥ ८ ॥ सिंहः ॥ अप्रत्नरत्नत्रितयेन्दिरादरी
सत्प्रातिहार्यातिशयातिशायि सः। चतुस्ततानन्तरमारतीरतः ।
श्रेयः श्रियां यो भविताङ्गि शम्पदम् ॥९॥ लक्ष्मेत्यदादीवमुखाजवेशन
व्याजाजनन्याः सुतभाविभाविना । स्वप्नस्थितौ सुस्थितिभावसम्भवा
वनी स वोऽव्यात् परमेष्ठिपुङ्गवः ॥ १० ॥ लक्ष्मीः ॥ विश्वं स्वसौरभ्यभरेण भावय
ननिन्द्यतानासुमनोमनोहरः। वदन्महानन्दपदं सदोदितः
स्त्रजेव भावी शिवदो यदङ्गजः ॥ ११॥ इतीव सद्वाच्यविवेचनाय यद्
गर्भावतारेऽवततार किं स्वयम् । स्वप्ने सवित्र्या स्त्रगियं श्रिता गुणैः
सार्वः सवः सर्वविभूतिभूतये ॥ १२ ॥ दाम ॥ जगत स्वगोभिर्गुरुतां नयनयं
कलालयस्तापतमःस्मयक्षयः। सुदक्षजातिप्रियतामृतप्रसू
मत्तोऽप्यनन्तैर्भविताऽधिको गुणैः ॥ १३ ॥ तवाङ्गजोऽम्बेति शशंस शीतगु
तुर्यदुत्पत्तिमहे महायतिम् । स्वप्ने किमास्योदयकैतवादिवा
ऽवताद्भवाद्वः स जिनो भवातिगः ॥ १४ ॥ शशी ॥ भास्वत्स्वरूपप्रकृतिस्तमोहताहतं शुचित्वं कमलोदयं तथा ।
For Private and Personal Use Only

Page Navigation
1 ... 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101