Book Title: Jin Stotra Kosh
Author(s): Chandrodayvijay, Suryodayvijay
Publisher: Kot Tapgacch Murtipujak Shwetambar Jain Sangh
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चतुर्दशस्वमस्तुतिगर्भितयुगादिदेवस्तुतिः चिन्वन्नृणां गोरचनाञ्चितो गुणै,
रीषत्तुलां येन सहाहमादधौ ॥ १५ ॥ सर्वात्मनाऽनन्तगुणेन नेति किं
व्यजिज्ञपत् स्वप्नदशास्वहपतिः। मातुः स्वरूपस्य निदर्शनोपधे,
रपाधिराधि द्यतु वः स सार्वराट् ॥ १६॥ दिनकरः॥ सम्पत्पदं दिव्यमहं यथा तथा
सुधमहर्म्यस्थपथप्रपञ्चनैः। उच्चाश्रयस्थायितयोत्तमात्मनां
तवाम्ब ! सूनुर्भवितेत्ययं ध्वजः ॥ १७ ॥ स्वप्रप्रकाशे निजरूपभावन,
व्याजादिवाऽसूचयदद्भुतोदयम् । यस्यावतारे भुवनोपकारकम्
सुकारकः सोऽस्तु जिनः क्रियोदये ॥ १८ ॥ ध्वजः॥ सुवर्णवर्ण्यः कमलामलालयः
पूर्णामृतात्मा सुमनोमनोहरः। दृष्टोऽपि शिष्टोदयतामितोऽम्ब ! ते
सुतोऽधिकोऽनन्तगुणैर्मदात्मतः ॥१९॥ भावीत्यहो पूर्णनिपोऽवदद्यदै,
श्वर्य प्रसूस्वप्नदशास्वयं स्वयम् । तत्साम्प्रतं यहुरुताऽखिलोच्चसत्,
पदप्रदा सोऽभयदः श्रियेऽस्तु वः॥२०॥ पूर्णकुम्भः॥ सारस्यशस्यं कमलामलालयं
मरीचिरुच्यालिकताकलोज्वलम् । तापापहं पुण्यपदं जडात्मकं
यथा भवेयं न भवत्समं मनाक् ॥२१॥ तथा विधेहीश ! ममेति गर्भगं
यं विश्वपं पद्मसरः किमु स्वयम् । स्वप्नोपधेर्विज्ञपयत्ययं चिदामन्दप्रतिष्ठास्थितिदोऽस्तु सर्ववित् ॥ २२ ॥ पद्मसरः॥
For Private and Personal Use Only

Page Navigation
1 ... 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101