Book Title: Jin Stotra Kosh
Author(s): Chandrodayvijay, Suryodayvijay
Publisher: Kot Tapgacch Murtipujak Shwetambar Jain Sangh
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चतुर्दशस्वमस्तुतिगर्भितयुगादिदेवस्तुतिः
६७
अथ चतुर्दशस्वमस्तुतिगर्भितयुगादिदेवस्तुतिः ॥ ४९ ॥ यदङ्गजोऽयं क्रमतश्चतुर्दशो,लसगुणस्थानरसोपभोगभाक् । प्राप्स्यत्यनन्तोदय ! शंपदं सतां दत्त्वा परेषाममृतं स्वयं ततः ॥ १ ॥ यस्यावतारे जननी जहर्ष किं चतुर्दशस्वनगुणेक्षणादिति । परोपकारप्रकृति तमादिमं
सार्व सदानन्दपदाय संस्तुवे ॥ २ ॥ क्षमाक्षमात्मा शिवदर्शनास्पदं
सर्वेसहः शस्यरमाकरोदयः । सुस्कन्धतोपार्जित सौख्यविस्तृतिः स्निग्धच्छविश्वारुपदप्रयोगगः ॥ ३ ॥ स्वमागतो गौरिव भाव्यही गुणैः
सुतोऽस्मदीयोऽयमितीव सञ्ज्ञया । पित्रादिभिर्यो वृषभः प्रतिष्ठितः
प्रष्ठः प्रभुः सोऽस्तु विभूतये भुवि ॥ ४ ॥ वृषभः ॥ सदुच्चतोच्चः सुकरस्थ विस्तरः
स्फुरद्गतिर्दुर्द्धरवैरिवारकः । मुक्ताकर श्री स्थितिगः सदा जयी
भावी गुणैः स्वैः प्रमदी करीव यः ॥ ५ ॥ इतीव यद्गर्भभवे सितं द्विपं
स्वप्ने विशन्तं मुदिता ददर्श किम् ।
स्वास्ये प्रसूर्विष्टपपावनाय स
श्रीआदिदेवः शिवसम्पदेऽस्तु वः ॥ ६ ॥ गजः ॥
महौजसाऽनेकपराजि दुर्मदं भिन्दन्नमन्दां नखविक्रियां दधत् । सदाऽवनीशः शिवदर्शनः स्फुरजयी सुतस्यानुकृर्ति कियगुणैः ॥ ७ ॥
For Private and Personal Use Only

Page Navigation
1 ... 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101