Book Title: Jin Stotra Kosh
Author(s): Chandrodayvijay, Suryodayvijay
Publisher: Kot Tapgacch Murtipujak Shwetambar Jain Sangh

View full book text
Previous | Next

Page 74
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ६५ श्रीमादिदेवस्तवनम् स्वामिस्त्वं घनघातिकर्मकदनैर्जातोऽस्यशोको हि तत्, स्थाने शोकतरुर्बभूव यदिहाशोकः स्वयं किं त्वयम् । जज्ञे केवलसेवयेव जिन! ते नम्राङ्गिनां स्यद्धया, चैत्यद्रुः किमिवैष शोकहरणे बद्धप्रतिशोऽभवत् ॥२॥ जिग्ये येन हृषीकसेनमखिलं पञ्चप्रपञ्चं प्रभो ! मिथ्यात्वोदयमव्रतं च भवता दधे व्रताचारशम् । तेनानन्दविनोदमेदुरहृदस्ते देशनोामिवाs, स्वप्नाः किं किल पञ्चवर्णकुसुमश्रेणी ववर्षुर्विभो ! ॥३॥ स्वामिन्नस्मयविस्मयोदयिमुदासारप्रसारस्तव, व्याख्यानावनिवेददिक्षु दिशतो धर्म चतुर्धा ध्वनिः। दिव्यः श्रव्यरसश्चतुर्मुखजुषः संविस्तृतः सर्वतः, किं जेतुं चतुरः कषायविषयानिःशेषदोषप्रभून् ॥४॥ तत्त्वातत्त्वविवेकिवाक्यविभव ! त्वय्येव विश्रामिणी, सम्यग्ज्ञानचरित्रदर्शनमयी रत्नत्रयी त्रोकते । त्रैलोक्योन्नतिपारिणी शिवपदानन्दोदयिन्यद्भुता, नान्यत्रेव ततः किमस्ति शिरसि छत्रत्रयं ते विभो! ॥५॥ रागद्वेषमहाद्विषो विधिनिधिध्यानद्वयाद्वैततः, सर्वाजय्यमहौजसावपि सुखेनेश! त्वया निर्जितौ । येनानन्तभवावतारनिरतौ तेनेव किं तजयो भृते ते यशसी सुचामरमिषात्पार्श्वद्वये संस्थिते ॥६॥ कष्टारिष्टनिकृष्टपुष्टनिकटादृष्टादिदोषद्विपो न्मादोद्भेदभिदा त्वमेव पुरुषेष्वेकोऽसि सिंहः स्वयम् । त्रैलोक्ये भविनां शिवाध्वसुपथां येनेव तेनोन्नतं, दिव्यं किं शुशुभे शुभोदयमयं सिंहासनं सार्व! ते ॥७॥ त्वय्येवोदितमक्षयोदयजयं ज्ञानादिकं क्षायिकं, सर्वास्वप्रकृतिस्थितं भवभयच्छेदप्रदं बोधिदम् । तेन त्वं त्वरितं तदर्पणविधेर्भव्यात्मनस्तारये,ऽतीवाशप्तिपदं तनोति सुगिरा किं दुन्दुभिस्ते पुरः॥ ८॥ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101