Book Title: Jin Stotra Kosh
Author(s): Chandrodayvijay, Suryodayvijay
Publisher: Kot Tapgacch Murtipujak Shwetambar Jain Sangh

View full book text
Previous | Next

Page 80
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ७१ श्रीस्तम्भनपार्श्वदेवस्तोत्रम् इतीव विज्ञप्तिपरः पुरः स्फुरन् यस्य प्रसूवक्त्रवरेऽगमच्छिखी। विधाय किं स्वप्नमिषं सुखाय स । प्रणेमुषां श्रीवृषभप्रभुर्भुवि ॥ ३०॥ शिखी ॥ चतुर्दशस्वप्नमवेक्ष्यमेति तद्, गुणोचितं तं नु जनन्यजीजनत् । सुतं गुणानन्त्यपदं तु साम्प्रतं तयेन लोकोत्तररूपभृद्विभुः॥ ३१ ॥ एवं श्रीगुरुराजहर्षविनयश्रीसूरितस्त्वं स्तुति स्वामिन् ! मन्त्रपवित्रगोत्रमहिमाम्नातप्रमेयप्रमः। सारोदारनिजक्रमालसरसोपास्ति प्रदेहीश ! मे पूज्यश्रीगुरुधर्महंसललनस्फारस्फुरन्मानसम् ॥ ३२ ॥ इति चतुर्दशस्वमस्तुतिगर्भितश्रीयुगादिदेववर्णनस्तोत्रम् ॥ ४९ ॥ अथ श्रीस्तम्भनपार्श्वदेवस्तोत्रम् ॥ ५० ॥ श्रेयः श्रीपदसम्पदोज्वलकलालीलाविलासालय,__ श्लोकानेकसुखैकपोषचपलीभावं च कर्मोन्नतिम् । योऽस्तम्भद्भविनां द्विधैव परितस्तेनेव किं स्तम्भन,ख्याति प्रापस पार्श्व इष्टफलदःश्रीस्तम्भनःस्तात् सताम् ॥१॥ यः स्याद्वादमसाधयत् स्वमहिमाऽसाधर्म्यदृष्टान्ततो, ऽनन्तार्थेष्वपि नैकधर्मविधिनाऽऽज्ञाराधकान्याङ्गिनाम् । श्रेयः श्रीसुखितेतराद्यमिततत्पर्यायतः सन्नयै, रादेशोन्नयनैर्जिनः स वृजिनं श्रीस्तम्भनोऽपास्यताम् ॥२॥ सप्तद्वीपजयश्रियः किमुदिताः सप्तव्रती किं हया, तङ्कत्यक्तसुखाकराः किमु शमावासैषणाः सप्त किम् । ध्यादेशस्थितसप्तभङ्गसुभगाः सप्ताप्यमी किं नया दक्षाः प्रेक्ष्य फणावलीमितिमतिं तन्वन्ति तेऽहनिजाम् ॥३॥ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101