Book Title: Jin Stotra Kosh
Author(s): Chandrodayvijay, Suryodayvijay
Publisher: Kot Tapgacch Murtipujak Shwetambar Jain Sangh

View full book text
Previous | Next

Page 63
________________ Shri Mahavir Jain Aradhana Kendra ५४ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीजिन स्तोत्रकोशः यदि परगिरिमान्याः किं तदेतन्न मिथ्या तिलतुषटकोणे कीटिकोष्ट्रं प्रसूता ॥ १७ ॥ परसमयरतस्था लक्षशः कोटिशो वा जिनप ! जपतपो वोपासतां योगमार्गम् । तदपि शिवपथेना यान्त्यदोऽर्थे यथाऽज्ञास्तिलतुषतटकोणे कीटिकोष्टुं प्रसूता ॥ १८ ॥ यहजुहतमतिस्थैरुक्तमन्यैरयुक्तं तदरमितरथाऽत्राकारि शिष्यप्रशिष्यैः । वचसि हतिरियं तेऽभून्न सूरेरिवारिंस स्तिलतुषतटकोणे कीटिकोष्ट्रं प्रसूता ॥ १९ ॥ भविकततिमियन्ती कार्मणानन्तकाणु स्थितिभृतिमति सौवत्वेऽपि कैवल्यसूचिम् | वदति तव सुसूक्ष्मध्यानजां प्रेक्ष्य कश्चि तिलतुष तटकोणे कीटिकोष्ट्रं प्रसूता ॥ २० ॥ इत्थं श्रीगुरुपूज्यहर्षविनयश्रीसूरितः संस्तुतिं भक्तिव्यक्तितया ममेश विमलादीन्द्रश्रियां मण्डनम् । त्वं संयच्छ भवे भवे भवभवं बोधिं सुबोध्याङ्कुरं दिव्यानन्ददधर्म हंसललनाब्जप्राज्यराज्यश्रियम् ॥ २१ ॥ इति समस्यापदास्पदं श्रीयुगादिदेवस्तोत्रम् ॥ ४३ ॥ अथ समस्यामयं युगादिदेवस्तोत्रम् ॥ ४४ ॥ वन्दे श्रीआदिदेवं तमणुतममतिं स्तोतुमुद्धायमिन्द्रा दीनां षट्तर्करूपां समयपथपुरं युक्तिपाथोधिवीचिम् । सर्वार्थावायशैलश्रियमयि निपुणाः प्रेक्ष्य केनैवमूचुः सूच्य कृपपङ्कं तदुपरि नगरं तत्र वार्द्धिस्ततोऽद्रिः ॥ १ ॥ स्वामिंस्ते पल्यकूपोपमममितगमैर्द्रव्यषङ्कं पराणौ गिर्यास्ते द्वादशाङ्गं शिवपदनगरं तत्र नैकोक्तियुक्तिः । For Private and Personal Use Only

Loading...

Page Navigation
1 ... 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101