Book Title: Jin Stotra Kosh
Author(s): Chandrodayvijay, Suryodayvijay
Publisher: Kot Tapgacch Murtipujak Shwetambar Jain Sangh
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रीपार्श्वदेवशिरःस्थफणावलिवर्णनस्तोत्रम् नेतस्तेऽत्र पुरे सुवर्णमुकुटप्राकाररेखाङ्किता
लीकावासनिवासिसर्वविजयिश्रीभाग्यसम्राट् स्वयम् । सर्वत्रापि जयं विधाय किमथ त्रैलोक्यलोकोत्तर
श्रीसिद्ध्यै विदधे जटाकपटतः सौभाग्यमुद्रोन्नतिम् ॥ २२ ॥ साम्राज्यप्रदपूज्यहर्षविनयश्रीसूरिताशाशया
दीशानन्यजराज्यहर्षविनयश्रीसूरितालोकने । यच्छातुच्छपथं सहर्षविनयश्रीसूरिपोपापद
प्राज्याजय्यजयेशहर्षविनयश्रीसूरिसूरीज्य यः ॥ २३ ॥ इत्थङ्कारमुदारहर्षविनयश्रीसूरितस्वात्मनः
श्रीशत्रुञ्जयमौलिमण्डनमणिभूयात्सदा मे स्तुतः । ब्रह्माद्वैतपदैकबोधिविधये श्रीधर्महंसप्रथाबीजायाद्भुतधर्महंससरसक्रीडाब्जिनी सम्पदे ॥ २४ ॥ ॥ इति श्रीयुगादिदेवजटाकूटवर्णनस्तवनम् ॥ ४५ ॥
अथ श्रीपार्श्वदेवशिरःस्थफणावलिवर्णनस्तोत्रम् ॥४६॥ सप्तद्वीपरमाश्रिता इव जगद्दारिद्यदावाकुलं
वीक्ष्योद्धर्तुमिहेव किं नयरयाः सप्तापि तत्त्वानि वा । मूर्त्ताः स्वोन्नतिदर्शनाय निपुणा उत्प्रेक्षका यत्स्फटाः
टोपारोपपरा इति श्रितहितं तन्यात्स पार्श्वप्रभुः ॥ १ ॥ मेरमहाव्रतोन्नतिपदान्युद्दामधर्माश्रमाः
सप्तापीवनसपानपिण्डविषया हर्षादशेषैषणाः। सम्यग्लालनपालनादिकलयोद्वोढुं कलं यं स्वयं
तेनुः सौवशयानमजनमनः पूयात्स पावॉ जिनः॥२॥ विश्वैश्वर्यमयस्य वन्द्यपदवीपूतस्य यद्भाग्यभू.
पालस्य स्वतनूच्चसद्मनि महाभाले गवाक्षायिते । लीलाखेलनलालसस्य शिरसि छत्रावलीवोज्वला किं लक्ष्येत फणोपधेरिह बुधैःसोऽस्तु श्रियेऽर्हन् सताम्॥३॥
For Private and Personal Use Only

Page Navigation
1 ... 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101