Book Title: Jin Stotra Kosh
Author(s): Chandrodayvijay, Suryodayvijay
Publisher: Kot Tapgacch Murtipujak Shwetambar Jain Sangh
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३५
श्रीगौतमस्वामिस्तोत्रम् सगधेषु गोर्बर इति प्रथितं पदमस्ति तत्र सुभवं विभवम् । गुणरत्नरोहणगिरिं सुगिरं प्रणमामि गौतमगणप्रगुणम् ॥ ३॥ नतनाकिमौलिमुकुटप्रकटप्रसरन्मणीरुचिविधूतपदम् । भविकेक्षणमृतसदञ्जनभं गणधारणं श्रयत भो भविकाः ! ॥ ४॥ महाशालशालौ विशालौ यशोभिर्यदीयार्यचर्या विभाव्यातिभाव्याम् क्षणात् प्रापतुः केवलालोकलक्ष्मी स्तुमस्तं गुरुं गौतमं दीप्रधर्मम् ५ गणाधीश! पृथ्वीसुतोऽपि क्वचित्त्वं नधत्से गति वक्ररूपां कदाचित् । न रागाकृति तिचारोपचारी सुसौभाग्यभोगप्रतिष्ठानिधानम् ॥६॥ सदष्टापदारोहचर्येक्षणेनाश्रितास्तापसा विस्मिताः पायसान्नम् ।। स्वदन्तः सुभावेन कैवल्यमीयुर्यदेकप्रभावात्स जीयाद्गणेन्द्रः ॥ ७ ॥ चरित्रं पवित्रोरु केचिद्यदीय निरीक्ष्य प्रपन्ना हि कैवल्यलीलाम् । अयश्चातुरी केचिदास्यं च केचिद्गति केचिदस्तु श्रियेऽसौ मुनीशः ॥८॥
प्रथमगणधरोऽयं भाग्यसौभाग्यसम्प
निधिरुचितमिहास्तु स्वस्तिभाजो भवेयुः। सुभविकनिकरा यदर्शनेनैव शश्व
द्वचनसुरसपानात् किं पुनः सिद्धिसिद्धौ ॥९॥ जननमरणवेलालोलकल्लोलमाला
हतिविरतिभूतानामात्मभान्तावतास्तु । भयदभवपयोधेीभरो व्याप्तलोकः,
प्रथमगणपतेः सद्दर्शनं स्यान्न यावत् ॥ १० ॥ तदुचितमिह यच्छ्रीगौतमस्याभिधाने
निवसति जगतीस्थाशेषसंपत्प्रभुत्वम् । कथमनुदिनमेतन्मन्त्रजापप्रभावात्
श्रयति सकललक्ष्मीरन्यथा भक्तभव्यात् ॥ ११ ॥ गणधरवरलब्धिर्विश्वविश्वोपकारा
जगति जयतु यस्या द्वादशाङ्गीप्रसूतिः। तदनु सकलदेशोदारसत्संयमश्रीः प्रभवति भविकानां मोक्षलक्ष्मी तु यस्याः ॥ १२ ॥
For Private and Personal Use Only

Page Navigation
1 ... 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101