Book Title: Jin Stotra Kosh
Author(s): Chandrodayvijay, Suryodayvijay
Publisher: Kot Tapgacch Murtipujak Shwetambar Jain Sangh
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रीजिनस्तोत्रकोशः
अथ साधारणजिनस्तुतिः ॥ ४०॥ सदयतादयतात्मपथप्रकाशकवचःकवचप्रणताङ्गिनाम् । तव पदानयुगं सुगुणावलीवनरसं नरसंश्रितमाश्रये ॥ १॥ जिनवरा नवरागहतोदराः कुनयदुर्मददुर्मदने हराः। सरसदर्शनदर्शनिनः श्रुतस्वरचयं रचयन्नु हदङ्गिनाम् ॥ २॥ गणधरैर्विहितं विहितं श्रितं रविमिताङ्गमिताङ्गभृतां मते । दिशतु संमृतिसंसृतिपारभृत् सकलया कलया कलितैरलम् ॥३॥ श्रीसुरी दिशतु कामितानि मे तानि मेरुरिव धीरदर्शना। दर्शनाद्भविकभावुकाकला शालहर्षविनयत्र ! भूजया ॥४॥
॥ इति साधारणजिनस्तुतिः ॥ ४० ॥
अथ द्वितीयसाधारणजिनस्तुतिः ॥४१॥ कामितं कामितं दद्यात् परमेष्ठी परेष्टदः । सकलः सकलश्रीणां पारगः पारगत्वरः ॥ १॥ स्वयम्भुवो भुवो ज्ञानश्रीणां संवरसंवराः। मानसम्मानसंयुक्तसञ्चयं रचयन्तु नः ॥२॥ गुणाधीशैर्गणाधीशैर्विहितं विहितं वदत् । श्रुतं श्रुतं श्रियं दद्यात् सदक्षरं सदक्षरम् ॥ ३॥ शारदा शारदाभ्राङ्गी श्रीहर्षविनयश्रियम् । नित्यं नित्यं करोतूच्चं भवे भवे भवोद्भवम् ।। ४॥
इति द्वितीयसाधारणजिनस्तुतिः ॥ ४१ ॥
अथ शत्रुञ्जयस्तोत्रम् ॥ ४२॥ जय श्रीविमलाद्रीश जय श्रीविमलालय । महानन्दपदं देव महानन्दपदं ददा ॥ १ ॥ शत्रु शत्रुञ्जयाजय्य च्छिन्द्धि भिन्द्धि तमस्तमम् । ग्रन्थि ग्रन्थं च निर्ग्रन्थसेव्यसेव्यतमाह्वया ॥ २ ॥
For Private and Personal Use Only

Page Navigation
1 ... 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101