SearchBrowseAboutContactDonate
Page Preview
Page 59
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीजिनस्तोत्रकोशः अथ साधारणजिनस्तुतिः ॥ ४०॥ सदयतादयतात्मपथप्रकाशकवचःकवचप्रणताङ्गिनाम् । तव पदानयुगं सुगुणावलीवनरसं नरसंश्रितमाश्रये ॥ १॥ जिनवरा नवरागहतोदराः कुनयदुर्मददुर्मदने हराः। सरसदर्शनदर्शनिनः श्रुतस्वरचयं रचयन्नु हदङ्गिनाम् ॥ २॥ गणधरैर्विहितं विहितं श्रितं रविमिताङ्गमिताङ्गभृतां मते । दिशतु संमृतिसंसृतिपारभृत् सकलया कलया कलितैरलम् ॥३॥ श्रीसुरी दिशतु कामितानि मे तानि मेरुरिव धीरदर्शना। दर्शनाद्भविकभावुकाकला शालहर्षविनयत्र ! भूजया ॥४॥ ॥ इति साधारणजिनस्तुतिः ॥ ४० ॥ अथ द्वितीयसाधारणजिनस्तुतिः ॥४१॥ कामितं कामितं दद्यात् परमेष्ठी परेष्टदः । सकलः सकलश्रीणां पारगः पारगत्वरः ॥ १॥ स्वयम्भुवो भुवो ज्ञानश्रीणां संवरसंवराः। मानसम्मानसंयुक्तसञ्चयं रचयन्तु नः ॥२॥ गुणाधीशैर्गणाधीशैर्विहितं विहितं वदत् । श्रुतं श्रुतं श्रियं दद्यात् सदक्षरं सदक्षरम् ॥ ३॥ शारदा शारदाभ्राङ्गी श्रीहर्षविनयश्रियम् । नित्यं नित्यं करोतूच्चं भवे भवे भवोद्भवम् ।। ४॥ इति द्वितीयसाधारणजिनस्तुतिः ॥ ४१ ॥ अथ शत्रुञ्जयस्तोत्रम् ॥ ४२॥ जय श्रीविमलाद्रीश जय श्रीविमलालय । महानन्दपदं देव महानन्दपदं ददा ॥ १ ॥ शत्रु शत्रुञ्जयाजय्य च्छिन्द्धि भिन्द्धि तमस्तमम् । ग्रन्थि ग्रन्थं च निर्ग्रन्थसेव्यसेव्यतमाह्वया ॥ २ ॥ For Private and Personal Use Only
SR No.020687
Book TitleJin Stotra Kosh
Original Sutra AuthorN/A
AuthorChandrodayvijay, Suryodayvijay
PublisherKot Tapgacch Murtipujak Shwetambar Jain Sangh
Publication Year1958
Total Pages101
LanguageHindi
ClassificationDictionary
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy