________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
साधारणजिनस्तोत्रम् धर्माधर्मपथप्रहर्षविनयश्रीसूरितादेशना,
भूमौ श्रीऋषभादयोऽखिलजिनास्ते सन्तु भद्रङ्कराः॥२६॥ एवं श्रीगुरुराजहर्षविनयश्रीसूरितः सम्पदं,
भक्तिव्यक्तिसुयुक्तितः स्तुतिपथं नीतो मया मायया। सर्वः सार्वकदम्बकः क्रमकजोपास्तिस्तदीयाऽस्तु मे,
तन्नित्या गुरुधर्महंससरसक्रीडालिनीश्रीपदम् ॥ २७ ॥ इति सान्वर्थनाममयं श्रीजिनराजचतुर्विंशतिकास्तोत्रम् ॥ ३८ ॥
अथ साधारणजिनस्तोत्रम् ॥ ३९ ॥ जिनराज ! तवासनं बभौ निजधैर्जितमन्दरोऽत्र किम् । भुवनत्रयराज्यशंसिनी शिरसि च्छत्रततीव सम्पदा ॥ १॥ सदशोककलेव सेवते भगवन्तं स्वमशोकमूर्तिभृत् । उपदेशमहीषु कौसुमी रचनाकीर्तिरिवाघघातजा ॥ २ ॥ यशसी इव रागरोषयोर्विजयैश्चामरयुग्ममीश ! ते । भुवनत्रयतापहारिणी तव गीर्भाति मुधेव सङ्गता ॥ ३ ॥ इव निर्जितसर्वमन्महा इति भामण्डलमीशपृष्ठगम् । किमितीव बभाण दुन्दुभिस्त्रिजगत्तारणतारतेव ते ॥४॥ इत्युदारनुतिभावमागते मागतोरुवचनः प्रसीद मे । मेदुरां वितर सारसम्पदा सूरिहर्षविनयप्रभुत्वदाम् ॥ ५॥
॥ इति साधारणजिनस्तोत्रम् ॥ ३९ ॥
For Private and Personal Use Only