Book Title: Jin Stotra Kosh
Author(s): Chandrodayvijay, Suryodayvijay
Publisher: Kot Tapgacch Murtipujak Shwetambar Jain Sangh
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४२
श्रीजिनस्तोत्रकोशः अथ श्रीपार्श्वनाथस्वामिस्तवनम् ॥ ३७॥ श्रीवामेयजिनं निरस्तवृजिनं दुष्कर्ममाजिनं भोगीन्द्रध्वजिनं विगातस्वजिनं भामण्डलभ्राजिनम् । दुष्टारिष्टजिनं खजिगतिजिनं दुःखाङ्कुरोत्थंजिनं सेवे पार्श्वसुसेव्यपार्श्वमसकृत् श्रीपार्श्वविश्वेश्वरम् ॥१॥ अर्हद्भक्तिभृतात्मनः परिवृति कत्तु मुदा मन्त्रयन्त्येताः सप्त जगत् स्वसंपद इवोद्वीक्षत्यसौ वाञ् शयन् । यन्मूर्ध्नि स्फुटकूटतः प्रकटिताः साटोपमुत्कण्ठिताः स श्रीपार्श्वजिनस्तनोति हृदि सेवासं शिवाशाप्तिकृत् ॥ २॥ श्रीपार्श्वनामाम्बुधरोन्नतिः स्याद्यस्यान्तरेऽनन्तसुखाम्बुवृष्टिः । द्विधा भियस्ते स कथं बिभेति संसारदावानलदाहनीरम् ॥ ३ ॥
नाम्नाऽपि तेऽभूजिननामशेषा
यां योगिनां संवरपूर्णयोगात् । त्वया सहाऽभ्येतु कथं जयं सा
संमोहधूलीहरणे समीरम् ॥ ४॥ श्रियः पुरस्तस्य लुठेयुरिष्टाः
सदोचितं स्वोरसि तेऽह्रिपद्मम् । श्रीपार्श्व ! यः श्रीसदनं धरेता
मायारसादारणसारसीरम् ॥५॥ व्याघ्रादयः सद्गतिगामिनश्चे
दाश्च यस्याः कुरुते कथं तत् । स्थिरैकभक्तिस्तव पार्श्व! तस्यां
नमामि वीरं गिरिसारधीरम् ॥ ६॥ यद्वाङ्मनःकरणपावनतथ्यतीर्थ
मन्तधृतं गुणभृतां मुदितं त्रिलोक्याम् । संस्मर्यते तव तदीश ! चिदाद्यनन्तभावावनामसुरदानवमानवेन ॥ ७ ॥
-
v
-
~
For Private and Personal Use Only

Page Navigation
1 ... 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101