Book Title: Jin Stotra Kosh
Author(s): Chandrodayvijay, Suryodayvijay
Publisher: Kot Tapgacch Murtipujak Shwetambar Jain Sangh

View full book text
Previous | Next

Page 50
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री पार्श्वनाथस्वामिस्तोत्रम् चित्ते ध्यायन्ति भव्या अहमहमिकया येऽनिशं नाममन्त्रं सिद्धान्ते सार्व तेषां भवजलधिरपारोऽप्यभून्नामशेषः । तत्तेऽतीयन्ति किं न ज्वलनमरिमेहिं स्तेनें सिंहानागं मत्तं घण्टारवेण प्रसृतमदजलं पूरयन्तं समन्तात् ॥ १६ ॥ त्वत्पादानप्रणामैर्यदि भुवि भविनां सम्भवन्ति क्षणेन यक्षैश्वर्याणि वर्याण्यपि न सुरशिवादीनि विश्वत्रयेऽपि । स्वामिस्ते वन्दनार्थ सपरिकरहरिः किं तदोको न नाकादारूढो दिव्यनागं विचरति गगने कामदः कामरूपी ॥ १७ ॥ यः श्रीशत्रुञ्जयाख्यक्षितिधरतिलकं तीर्थपं मारुदेवं निघ्नन् विघ्नानि कुर्वन् हितमुपनमतां प्राणिनां सं तनोति । सर्वाणष्टानि स श्रीजिनचरणचरणोपासको गोमुखाख्यो यक्षः सर्वानुभूतिर्दिशतु मम सदा सर्वकार्येषु सिद्धिम् ॥ १८ ॥ श्रीहर्ष विनयसूरितगुरुहर्षविनयसुधीभिरप्यद्रौ । श्रितहर्षविनयसूरिश्रीर्जयजयहर्षविनयगुरो ॥ १९ ॥ वन्दे त्वां वृषभैकहर्षविनयश्रीसूरिभं श्रीपदं श्रेयोमार्गविलासिहर्षविनयश्रीसूरितं सर्वतः मिथ्याज्ञानतमस्सु हर्षविनयश्रीसूरिभूपेष्वपि प्रष्टाशोदयदं च हर्षविनयश्रीसूरिपूज्यक्रमम् ॥ २० ॥ इत्थङ्कारमुदारसारसरसैर्निर्णिक्तभक्त्युक्तत्वांनृसुरादिराज्यविभवं याचे न किन्त्वस्तु मे । श्री आदीश तवेह हर्षविनयश्रीसूरि सेवापदोः श्रेयः श्रीस्तु ययाशयालयलयाश्रीधर्म हंसश्रिया ॥ २१ ॥ इति समस्यामयं श्रीयुगादिस्तवनम् ॥ ३६ ॥ wwwwwww For Private and Personal Use Only 89

Loading...

Page Navigation
1 ... 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101