Book Title: Jin Stotra Kosh
Author(s): Chandrodayvijay, Suryodayvijay
Publisher: Kot Tapgacch Murtipujak Shwetambar Jain Sangh

View full book text
Previous | Next

Page 22
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीभजितशान्तिस्तोत्रम् शिवशर्मनिधी इवोदितौ भवभीभेदिधराविवोद्धरौ । जयशान्तिगुणाकराविवाजितशान्ती मुदितः स्तुवेऽम्वहम् ॥ १२ ॥ सुलभाः सकलाः कलाः कलाश्चरणं चापि सदर्शनं सविद् । विशदं भुवि तस्य यस्य साऽजितशान्त्योः शरणाप्तिसम्पदा ॥ १३ ॥ अजितो हृदि यस्य संवसेत् स कथं नैव जयश्रियां पदम् । भजतेऽजितशान्तिमत्र यस्त्रिजगद्वन्द्यपदः कथं न सः ॥ १४ ॥ अमृतं दिवि नामतोऽर्थतो न वचस्तेऽमृतमत्र सार्थकम् । अजितामृततामितं यतस्तव वाक्यं स्वदतां सदासताम् ॥ १५ ॥ भवतात्मसु चाश्रितेष्वहो बहिरन्तश्च सुशान्तिसम्पदा । प्रथितोचितमेव तद्यतस्तवशान्तेऽन्वयितोदिताभिधा ॥ १६ ॥ अजिते स दिने जयत्यहो बहिरन्तस्तमसां कुतः स्थितिः । कुमुदालिकलोदयः कथं जिनशान्तीन्दुमहस्सु सत्सु न ॥ १७ ॥ जितशत्रुभवो भवेजिनोऽजितशत्रुर्न कथं द्विधात्मना । प्रथमं भुवि शान्तिकृत्तयोदितशान्तिर्न कुतः सुशान्तिमान् ॥ १८ ॥ अजितः स्वयमीश तत्कथं त्वमयैः स्वैरचरैर्विलुप्यसे । यदि शान्तिमयः प्रभोऽसि तत् श्रितगेहेषु कुतोऽपि निःस्वता ॥ १२ ॥ अजितः सकलोऽपि सन्ततं विकलास्तत्तदुपासकाः कथम् । यदि शान्तिरसाकरः प्रभुर्न कथं शान्तिभृतास्तदाश्रिताः ॥ २० ॥ चरणं करणं हृदि स्मृतं करणं तेऽजित विश्वसंपदे । चरणौ मनसाऽपि भावितौ भुवि शान्तेश्वरणोन्नतिप्रदौ ॥ २१ ॥ वदनं सदनं महागिरां न मुदे कस्य तवाजितेक्षितम् । स्तुतयोऽपि न ते हितायते भुवि शान्ते प्रभवन्ति भाविताः ॥ २२ ॥ विजयाङ्गभवो विभुर्भजेद्र हिरन्तारिपुसद्यसजयम् । उचितं भुवि विश्वसेनजो लभतेऽहो अयि विश्वसेनताम् ॥ २३ ॥ घुमणीतरुकुम्भमुख्यजैः सुद लैर्निर्मितमूर्त्तिमानसि । अजितोत्तम शान्तिदेव चाश्रितशिष्टेष्टदतैव हेतुता ॥ २४ ॥ सकलातिशयातिशायितोपकृर्ति ते तनुतेऽजित क्षितौ । श्रितवत्सलतोचिताऽद्भुता तव शान्ते च तथैव विद्यते ॥ २५ ॥ For Private and Personal Use Only १३

Loading...

Page Navigation
1 ... 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101