Book Title: Jin Stotra Kosh
Author(s): Chandrodayvijay, Suryodayvijay
Publisher: Kot Tapgacch Murtipujak Shwetambar Jain Sangh
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
श्रीजिनस्तोत्रकोशः
अथ श्रीशाश्वतजिननामस्तोत्रम् ॥ ३२ ॥ जयकारसुपदमृषभं चन्द्राननवारिषेणयुगल मलम् । संन्यस्य वर्द्धमानं शाश्वतजिननामसंनुतिं कुर्वे ॥ १ ॥
गीतिरियम् ।
अथ स्रग्धरा
61
Acharya Shri Kailassagarsuri Gyanmandir
Leg
पातालावाससंस्थैर्भवनपतिसुरख्यन्तरैज्र्ज्योतिरीशैः, स्वर्गीर्द्धस्थान तिर्यग हृदगिरिनगरद्वीपसुस्थैः सुराद्यैः । पूज्यन्ते यानि बिम्बान्यनुपम विधिना वर्द्धमानर्षभाद्यै, - नित्यैर्दिग्मेयगोत्रैरित्रजगति मुदितैरर्हता तानि वन्दे ॥२॥
३१
अथ स्रग्विणी
शाश्वता होदितं वर्द्धमानं जिनं सर्षभं वारिषेणं च चन्द्राननम् । आगमोक्तयैकवर्णप्रतीकाकृतिं देवविद्याधरेन्द्रादिपूज्यं भजे ॥ ३ ॥ वर्द्धमानं चतुःसंपदानन्त्यतः सर्षभं वारिषेणं सुधुर्यत्वतः । मन्दचन्द्राननं पापतापापहाप्याय कास्येक्षणात् सान्वयस्वाह्रयम् ॥४॥ अथ स्वागता
वारिषेणमुख शाश्वतनामध्येयपूज्यजिनमण्डितमूर्त्तीः ।
पूजयन्ति विधिना मुदिता ये ते जयन्तु विभवा भवितोऽमी ॥५॥ वर्द्धमानमृषभं जिनचन्द्रं वारिषेणमिति शाश्वतनाम्ना । स्तौति पूजयति संस्मरतीशं यः सदा स लभतेऽभिमताभाम् ॥ ६ ॥ अथ रथोद्धता
वारिषेणमथ सैन्यवारिणां वर्द्धमानमखिलर्द्धिवृद्धिदम् । शस्तशस्तमृषभं श्रियः पदं सार्वचन्द्रमभितः श्रये भृशम् ॥७॥ अथ शिखरिणी
महीखण्डे खण्डे घटितघटितानामवहृतां, जिनानां मूर्तीनामपरभुवनस्थानसजुषाम् । पुनर्नित्यावस्थापरममहसां पूज्यपदवी,पदस्थानां तासां नवनमहनं चारु कुरुवे ॥ ८ ॥
For Private and Personal Use Only

Page Navigation
1 ... 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101