Book Title: Jin Stotra Kosh
Author(s): Chandrodayvijay, Suryodayvijay
Publisher: Kot Tapgacch Murtipujak Shwetambar Jain Sangh

View full book text
Previous | Next

Page 38
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org श्री जिनस्तोत्रकोशः Acharya Shri Kailassagarsuri Gyanmandir २९ अथ शालिनीभिन्नादेशादिष्टसप्तैकभङ्गै भावाभावात्मार्थसार्थप्रधानम् । शुद्धं बुद्ध्यादिशत्वं प्रमाणैः साध्याबाधं साधु सीमन्धरान् ॥ ७ ॥ नित्यानित्यं द्रव्यपर्यायरूपापन्नं नुन्नं सन्नयैः स्यात् पदोत्तया । युक्तत्याऽवोचश्चारुवस्तुस्वरूपं नान्यैर्वाध्यं जातु सीमन्धरत्वम् ॥ ८ ॥ यस्यानन्तं पर्ययानन्त्यबोधादर्थानन्त्याद्वाऽस्ति विज्ञानरूपम् । सत्यासत्यं व्यक्तिजातिप्रकाशं पौनःपुन्यान्नौमि सीमन्धरं तम् ॥ ९ ॥ अथ प्रहर्षिणी श्रीसीमन्धरवचसां नयानुगानां सन्देहापहमहसां महार्हणानाम् । सेवाभिः : सरसतया कदा पुनीयामात्मानं भविकपदं यथा भवेयम् ॥ संसारप्रसरहरप्रकाररूपो दुस्ता पोपशममहामृतप्रवाहः । कल्याणोज्ज्वलसुकलालयोऽस्तु मेऽसौ श्रीसीमन्धरपदपद्मयोः प्रणामः आनन्दोदयविशदान्तरङ्गचेताः श्रीसीमन्धर तव सेवते न शश्वत् । चारित्रं चरणपवित्रसिष्टशिष्टश्रीसिद्ध्यै करणपदं कदा श्रयिष्ये ॥ १२ ॥ अथ दोधकम् - देवनिकायनिषेवितपादश्चेतसि यस्य जिनेश वशे त्वम् । भृङ्ग इवापदे सुपदव्या पूज्यपदं लभसे भविकोऽसौ ॥ १३ ॥ पावकनायक तावक कान्तानेकगुणस्तवनं सवनं स्यात् । कार्मणमान्तरमद्भुतशस्तश्रीपदराज्यमिति ततं यत् ॥ १४ ॥ दुर्मदमानमनोभवलोभक्रोधमुखाहितदुर्द्धरपूरैः । दत्तसुदुस्तरदुःखमथ त्वं मामव सौम्यदृशेश शरण्यम् ॥ १५ ॥ त्वदनं सदनन्तजय श्रीमन्महसां सदनं विशदाभम् । कस्य मुदं न निरीक्षितमेतत् यच्छति विच्छवि तुच्छविकारम् ॥ १६॥ अथ भुजङ्गप्रयातम् — कदाष्टादशांहःपदारब्ध कर्मप्रपञ्चाननन्तैर्भवैः सञ्चितांस्तान् । त्रिधा शुद्धमालोच्य पूतं करिष्ये स्वकात्मानमीश त्वदाशोक्तयुक्तया ॥ सदा दीप्य से पूर्व भानुप्रभावस्त्रिलोकीत मस्तोमहारि प्रचारः । प्रदीपप्रतापप्रदीपः प्रभुत्वोदितोविश्वविश्वेषु सीमन्धर त्वम् ॥ १८ ॥ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101