Book Title: Jin Stotra Kosh
Author(s): Chandrodayvijay, Suryodayvijay
Publisher: Kot Tapgacch Murtipujak Shwetambar Jain Sangh
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रीजिनस्तोत्रकोशः विज्ञानं तव सकलार्थगोचरं
__ यद्देवान्ये कुमतधियोंऽशवादिनः स्युः॥२॥ यत्पूर्वापरनिहतार्थतावकाशं त्वद्वाक्यं क्वचिदपि नास्ति साम्प्रतं तत् । सापेक्षंसकलनयावलम्बिभावाद्यन्नेतःपरसमया मिथो विपक्षाः ॥३॥ स्याद्वादाधिगतमशेषवस्तुजातं सार्व त्वं वदसि वरं प्रमाणवाक्यैः । एकांशोपगतगिरः परेऽर्थसाथै दुर्नीत्या तदिह बुधा भवद्वचःस्थाः४
प्रहर्षिणी छन्दः । धितहर्षविनयसूरितविनुतगुणस्त्वं जयप्रदो भव मे। श्रीपद्मप्रभचिन्तामणिरेष च धर्महंसजयः ॥५॥
इति श्रीपद्मप्रभस्तोत्रम् ॥ १२ ॥
श्रीसुपार्श्वनाथजिनस्तोत्रम् ॥ १३ ॥ सुप्रतिष्ठ प्रतिष्ठ क्षितीश प्रतिष्ठापिताऽभीष्टसाश्चर्यजन्मोत्सवम् । सम्पदानन्दसम्पन्नदेहोदयं श्रीसुपार्श्व सुपार्श्व जिनं संस्तुवे ॥१॥ चारुसारूप्यमानोऽपि नो दुर्नयी सौगतोऽपि स्थिरद्रव्यरूपार्थवित् सत्यतासंनिकर्षप्रमाणोऽप्यहो सन्मती श्रीसुपार्श्वेश्वरस्त्वं जय ॥२॥ देहकर्मादिशून्यः शिवः सर्वदा सोपदेशत्वमङ्गप्रयोगाद्भवेत् । कण्टकेष्वेवमन्योन्यविध्वंसिषु ध्येयते धृष्यमुद्दीप्यते शासनम् ॥ ३॥ पक्षपातं विनैवं द्वयस्य द्वयं चित्रकारि प्रतीमः परीक्षापदे । सत्यतार्थप्रधानं तवानुत्तरं विद्यते स्थाननिर्बन्धितावादिनाम् ॥ ४ ॥
स्रग्विणी। एवं सुपार्श्वदेवः स्तोत्रपथं प्रापितस्तनोतु मतिम् । श्रीहर्षविनयसूरितरूपो मे धर्महंसरुचिम् ॥ ५॥
॥ इति श्रीसुपार्श्वनाथजिनस्तोत्रम् ॥ १३॥
For Private and Personal Use Only

Page Navigation
1 ... 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101