Book Title: Jin Stotra Kosh
Author(s): Chandrodayvijay, Suryodayvijay
Publisher: Kot Tapgacch Murtipujak Shwetambar Jain Sangh
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
२६
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रीनमिदेव स्तोत्रम्
अथ श्रीनमिदेवस्तोत्रम् ॥ २७ ॥ जगती विजयार्जिताह्वयक्षितिपश्रीविजयान्वयश्रियाम् । करुणाकरसारशासनं नमिमेनं शरणं श्रये जिनम् ॥ १ ॥ परशासनजागमस्थितिं ह्यपशब्दा इव नार्थसङ्गतिम् । श्रयते यशसेऽर्थसंविदे न तथा शासनमद्भुतं तव ॥ २ ॥ त्रिजगत्युपकारसारताऽस्त्यत एवेव जिनाङ्गिसम्पदे । श्रुतरूपमुपेत्य निर्मलं तव कैवल्यरमा प्रवर्त्तते ॥ ३ ॥ तव केवलसंविदंशतां मतिमुख्याश्चतुरार्यसंविदः । दधते कथमन्यथा यथातथरूपास्त्वमिवेह ताः प्रभोः ॥ ४ ॥ वैतालीयम् ।
श्रीनमिनेतस्त्वं तनु यथार्थवित्तामिति स्तुतो भविनाम् ।
wwwm
श्रीहर्षविनय सूरितगुणोदयो धर्महंस विभो ॥ ५ ॥
M
॥ इति श्रीनमिदेवस्तोत्रम् ॥ २७ ॥
अथ श्रीनेमिदेवस्तोत्रम् ॥ २८ ॥
स्वागता छन्दःआसमुद्रविजयाप्तनि जाह्नश्रीसमुद्र विजयान्वयलक्ष्मीम् । श्रीमुकुन्दहृदयाम्बुजभृङ्गं संस्तवीमि जिननेमिमहं तम् ॥ १ ॥ त्वद्वचः सुपथ संत्यजनस्था अध्वगा इव महाटविभूषु । अन्यतीर्थ कपथेषु सुसक्ताः प्राप्नुवन्ति मनुजा अतिदुःखम् ॥ २ ॥ शासनं सुनयभासन सर्वैरागमोक्तविविधोक्तिगमस्थैः । तीर्थनाथ शरणं भववार्द्धा यानपात्रमिव ते भविकानाम् ॥ ३ ॥ नेमिदेव तव दर्शनसम्पत् कल्पवल्लिरिव कामितकर्त्री । सेवनं तव चरित्ररमेव ब्रह्मसंभव सुखोद्भवबीजम् ॥ ४ ॥ श्रीनेमिः स्याद्वादी सकलादेशस्थगीः स्तुत इतीशः । ततहर्षविनयसूरितजयदः स्ताद्धर्महंसततिः ॥ ५ ॥ इति श्रीमदेवस्तोत्रम् ॥ २८ ॥
For Private and Personal Use Only

Page Navigation
1 ... 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101