Book Title: Jaina Meditation Citta Samadhi Jaina Yoga
Author(s): Nathmal Tatia
Publisher: Jain Vishva Bharati
View full book text
________________ स्थानाङ्गसूत्रस्य चतुर्थाध्ययनम् इति / अर्थतल्लक्षणान्युच्यन्ते- 'ओसन्नदोसे' ति। हिंसादीनामन्यतरस्मिन् ओसन्नंप्रवृत्तेः प्राचुर्यं बाहुल्यं यत्स एव दोषः, अथवा 'ओसन्न' ति बाहुल्येनानुपरतत्वेन दोषो हिंसादीनां चतुर्णामन्यतर ओसन्नदोषः, तथा बहुष्वपि-सर्वेष्वपि हिंसादिषु दोष:-प्रवृत्तिलक्षणो बहुदोषः, बहुर्वा-बहुविधो हिंसानृतादिरिति बहुदोषः / तथा अज्ञानात्-कुशास्त्रसंस्कारात् हिंसादिष्वधर्मस्वरूपेषु नरकादिकारणेषु धर्मबुद्ध्याऽभ्युदयार्थं या प्रवृत्तिस्तल्लक्षणो दोषोऽज्ञानदोषः, अथवा उक्तलक्षणमज्ञानमेव दोषोऽज्ञानदोष इति / अन्यत्र नानाविघदोष इति पाठस्तत्र नानाविधेषु तु-उक्तलक्षणादिषु हिंसाधुपायेषु दोषोऽसकृत्प्रवृत्तिरिति नानाविधदोष इति / तथा मरणमेवान्तो मरणान्तः आमरणान्तादामरणान्तम् असञ्जातानुतापस्य कालसौकरिकादेरिव या हिंसादिषु प्रवृत्तिः सैव दोष आमरणान्तदोषः / . ___अथ धयं चतुर्विमिति स्वरूपेण / चतुर्षु पदेषु-स्वरूपलक्षणालम्बनानुप्रेक्षालक्षणेष्ववतारो विचारणीयत्वेन यस्य तच्चतुष्पदावतारं चतुर्विधस्यैव पर्यायो वाऽयमिति / क्वचित् 'चउप्पडोयार' मिति पाठस्तत्र चतुर्षु पदेषु प्रत्यवतारो यस्येति विग्रह इति / 'आणाविजए' ति आ–अभिविधिना ज्ञायन्तेऽर्था यया साऽऽज्ञा-प्रवचनं सा विचीयतेनिर्णीयते पर्यालोच्यते वा यस्मिंस्तदाज्ञाविचयं धर्मध्यानमिति / प्राकृतत्वेन विजयमिति / आज्ञा वा विजीयते अधिगमद्वारेण परिचिता क्रियते यस्मिन्नित्याज्ञाविजयम् / एवं शेषाण्यपि / नवरं अपाया-रागादिजनिताः प्राणिनामैहिकामुष्मिका अनर्थाः, विपाक:-फलं कर्मणां ज्ञानाद्यावरकत्वादि, संस्थनानि लोकद्वीपसमुद्रजीवादीनामिति, आह च आप्तवचनं प्रवचनमाज्ञा विचयस्तदर्थनिर्णयनम् / आश्रवविकथागौरवपरीषहाद्यैरपायस्तु // [प्रशम० 247] अशुभशुभकर्मपाकानुचिन्तनार्थो विपाकविचयः स्यात् / द्रव्यक्षेत्राकृत्यनुगमनं संस्थान विचयस्तु // [प्रशम० 248] इति / / एतल्लक्षणान्याह-'आणारुइ' त्ति / आज्ञा-सूत्रव्याख्यानं नियुक्त्यादि / तत्र तया वा रुचि:-श्रद्धानमाज्ञारुचिः / एवमन्यत्रापि / नवरं निसर्गः-स्वाभावोऽनुपदेशस्तेन, तथा सूत्रम् --आगमस्तत्र तस्माद्वा, तथा अवगाहनमवगाढं-द्वादशाङ्गावगाहो विस्त राधिगम इति सम्भाव्यते तेन रुचिः, अथवा 'ओगाढ' त्ति साधुप्रत्यासन्नीभूतस्तस्य साधूपदेशाद्रुचिः, उक्तं च आगमउवएसेणं निसग्गओ जंजिणप्पणीयाणं / भावाणं सद्दहणं धम्मज्झाणस्स तं लिंगं // ' [ध्या० श० 67] 1 आगमोपदेशेन निसर्गतो यज्जिनप्रणीतानाम् / भावानां श्रद्धानं तद्धर्मध्यानिनो लिंगम् //

Page Navigation
1 ... 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170