Book Title: Jaina Meditation Citta Samadhi Jaina Yoga
Author(s): Nathmal Tatia
Publisher: Jain Vishva Bharati
View full book text
________________ तत्त्वार्थसूत्रस्य ध्यानप्रकरणम् पर्यालोचनम् / विचयशब्दः प्रत्येकमभिसम्बध्यते / आज्ञाऽपायविपाकसंस्थानविचयशब्दात् तादर्थ्य चतुर्थी / धर्मशब्दो व्याख्यातः / अप्रमत्तसंयतस्येति स्वामिनिर्देशः। ___ तत्राज्ञा-सर्वज्ञप्रणीत आगमः / तामाज्ञामित्थं विचिनुयात्-पर्यालोचयेत्-पूर्वापरविशुद्धामतिनिपुणामशेषजीवकायहितामनवद्यां महा● महानुभावां निपुणजनविज्ञेयां द्रव्यपर्यायप्रपञ्चवतीमनाद्यनिधनां "इच्चे इयं दुवालसंगं गणिपिडगं न कयाइ णासी" इत्यादि (नन्दी सू० 58) वचनात् / तत्र प्रज्ञायाः परिदुर्बलत्वादुपयुक्तोऽपि सूक्ष्मया शेमुष्या यदि नावैति भूतमर्थ सावरणज्ञानत्वात्, यथोक्तम् नहि नामानाभोगश्छद्मस्थस्येह कस्यचिन्नास्ति / ज्ञानावरणीयं हि ज्ञानावरणप्रकृति कर्म // . तथाप्येवं विचिन्वतोऽवितथवादिनः क्षीणरागद्वेषमोहाः सर्वज्ञा नान्यथावस्थितमन्यथा वदन्ति भाषन्ते वाऽनृतकारणाभावात् / अतः सत्यमिदं शासनमनेकदुःखगहनात् संसारसागरादुत्तारकमित्याज्ञायां स्मृतिसमन्वाहारः प्रथमं धर्मध्यानमाज्ञाविचयाख्यम् / अपायविचयं द्वितीयं धर्मध्यानमुच्यते / अपाया–विपदः शारीर-मानसानि दुःखानीति पर्यायाः / तेषां विचयः- अन्वेषणम् / इहामुत्र च रागद्वेषाकुलितचेतोवृत्तयः सत्त्वा मूलोत्तरप्रकृतिविभागार्पितजन्मजरामरणार्णवभ्रमणपरिखेदितान्तरात्मानः सांसारिकसुखप्रपञ्चेष्ववितृप्तमानसाः कायेन्द्रियादिष्वास्रवद्वारप्रवाहेषु वर्तमाना मिथ्यात्वाज्ञानाविरतिपरिणताः पर्याप्तमादाय कर्मजालं दुरन्तं नरकादिगतिषु दीर्घरात्रमपाययुज्यन्ते / केचिदिहापि कृतवैरानुबन्धाः परस्परमाक्रोशवधबन्धाद्यपायभाजो दृश्यन्ते क्लिश्यन्त इत्यतः प्रत्यवायप्रायेऽस्मिन् संसारेऽत्यन्तोद्वेगाय स्मृतिसमन्वाहारतोऽपायविचयं धर्मध्यानमाविभवति / तृतीयं धर्मध्यानं विपाकविचयाख्यमुच्यते / विविधो विशिष्टो वा पाको विपाक:अनुभावः / अनुभावो रसानुभवः कर्मणां नरक-तिर्यङ्-मनुष्या-ऽमरभवेषु / तस्य विचय:अनुचिन्तनं मार्गणम् / तदर्पितचेतास्तत्रैव स्मृति समन्वाहृत्य वर्तमानो विपाकविचयध्यायी भवति / ज्ञानावरणादिकमष्टप्रकारं कर्म प्रकृति-स्थित्य-ऽनुभाव-प्रदेशभेदमिष्टानिष्टविपाकपरिणामं जघन्यमध्यमोत्कृष्टस्थितिक विविधविपाकम् / तद्यथा-ज्ञानावरणाद् दुर्मेधस्त्वम् / दर्शनावरणाच्चक्षुरादिवैकल्यं निद्राधुद्भवश्च / असद्वद्याद् दुःखम् / सद्वेद्यात् सुखानुभवः / मोहनीयाद् विपरीतग्राहिता चारित्रवि निवृत्तिश्च / आयुषोऽनेकभवप्रादुर्भावः / नाम्नोऽशुभप्रशस्तदेहादिनिर्वृत्तिः / गोत्रादुच्चनीचकुलोपपत्तिः / अन्तरायादलाभ इति / इत्थं निरुद्धचेतसः कर्मविपाकानुसरण एव स्मृतिसमन्वाहारतो धयं भवति ध्यानमिति / संस्थानविचयं नाम चतुर्थं धर्मध्यानमुच्यते / संस्थानम्-आकारविशेषो लोकस्य द्रव्याणां च / लोकस्य तावत्, तत्राधोमुखमल्लकसंस्थानं वर्णयन्त्यधोलोकं, स्थालमिव च तिर्यग्लोकम्, ऊर्ध्वमधोमल्लकं समुद्गम् / तत्रापि तिर्यग्लोको ज्योतिय॑न्तराकुलः / असङ्ख्येया द्वीप-समुद्रा वलयाकृतयो धर्मा-ऽधर्मा-ऽऽकाश-पुद्गल-जीवास्तिकायात्मका

Page Navigation
1 ... 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170