Book Title: Jaina Meditation Citta Samadhi Jaina Yoga
Author(s): Nathmal Tatia
Publisher: Jain Vishva Bharati

View full book text
Previous | Next

Page 123
________________ 66 चित्त-समाधि ! बैन योग विशेष: स्वरूपमितरेतरव्यावृत्तं तत्त्वं वितर्कविचारयोः कीदृगिति तत्त्वमाख्यायताम् / अत्रोच्यत इत्याह SUTRA वितर्कः श्रतम् / (IX.45) BHASYA यथोक्त श्रुतज्ञानं वितर्को भवति (45) TIKA वितर्को–मतिज्ञानं विकल्पः / वितळते येनालोच्यते पदार्थः स वितर्कः / तदनुगतं श्रुतं वितर्कः, तदभेदाद् / विगतं तर्क वा वितर्क, संशयविपर्ययापेतं श्रुतज्ञानमित्यर्थः / इदमेव सत्यमित्यविचलितस्वभावम् / यथोक्तमिति पूर्वगतमेव, नेतरत् / श्रुतज्ञानमाप्तवचनंवितर्क उच्यत इति / (45) सम्प्रति विचारस्वरूपनिरूपणायाह SOTRA विचारोऽर्थव्यञ्जनयोगसक्रान्तिः। (IX.46) BHASYA अर्थव्यञ्जनयोगसङक्रान्तिविचार इति / (46) TIKA अर्थव्यञ्जनर्योगेषु च सङ्क्रमणं सङ्क्रान्तिः। अर्थः परमाण्वादिः, व्यञ्जनं तस्य वाचकः शब्दः, योगा मनोवाक्कायास्तेषु सङ्क्रमणं सङ्क्रान्तिरेकद्रव्येऽर्थस्वरूपाद् व्यञ्जनं व्यञ्जनस्वरूपादर्थम् / वर्णादिकः पर्यायोऽर्थो व्यञ्जनः शब्दः / एतदुक्त भवति-प्राक्शब्दस्ततस्तत्त्वालम्बनमिदमस्य स्वरूपमयमस्य पर्यायस्ततस्तदर्थचिन्तनं साकल्येन, ततः शब्दार्थयोः स्वरूपविशेषचिन्ताप्रतिबन्धः प्रणिधानमर्थसङक्रान्तिः, काययोगोपयुक्तध्यानस्य वाग्योगसञ्चारः, वाग्योगोपयुक्तध्यानस्य वा मनोयोगसञ्चार इत्येवमन्यत्रापि योज्यम् / इत्थंलक्षणो विचार इत्यस्ति वितर्कविचारयोः प्रतिविशेष इति / (46)

Loading...

Page Navigation
1 ... 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170