Book Title: Jaina Meditation Citta Samadhi Jaina Yoga
Author(s): Nathmal Tatia
Publisher: Jain Vishva Bharati
View full book text
________________ 58 चित्त-समाधि : जैन योग अष्टौ ततः कषायान् पण्डकवेदं ततस्ततः स्त्रीत्वम् / क्षपयति पुंवेदे सङ्क्रमय्य षण्णोकषायांश्च // पुंस्त्वं क्रोधे क्रोधं माने मानं तथैव मायायाम् / मायां च तथा लोभे स क्षपयति सङ्क्रमय्य ततः // लोभस्य यावद् बादरप्रकृतीर्वेदयति तावदनिवृत्तिबादरसम्परायसंयतः / ततः सूक्ष्मप्रकृतिवेदनाल्लोभकषायस्य सूक्ष्मसम्परायसंयत उपशमकः सज्वलनलोभमुपशमयति क्षपकः क्षपयति / यथोक्तम् अथ सूक्ष्मसम्परायस्थानं प्राप्नोति बादरे लोभे / क्षीणे सूक्ष्मे लोभकषाये शेषे विशुद्धात्मा // यत् सम्परायमुपजनयति स्वयमपि च सम्परायन्ति / व्यासङ्गाहेतवस्तेन कषायाः सम्परायाख्याः // सम्यग्भावपरायणहेतुत्वाद् वाऽपि सम्परायास्ते / प्रकृतिविशेषाच्च पुनर्लोभकषायस्य सूक्ष्मत्वम् // स ततो विशुद्धियोगेन याति स्थानान्तरं वस्तमपि / क्षपयन् गच्छति यावत् क्षीणकषायत्वमाप्नोति // ततोऽष्टाविंशतिविधमोहनीयोपशमादुपशान्तकषायवीतरागश्छद्मस्थः / वीतो विगतो रागो यस्मादिति वीतरागः / छम-आवरणं तत्र स्थितः छद्मस्थः / मोहनीयस्य कृत्स्नक्षयात् स क्षीणकषायवीतरागच्छद्मस्थः / ततः क्षीणकषायो धर्मशुक्लाद्यद्वयध्यानविशेषाद् यथाख्यातसंयमविशुद्धयाऽवशेषाणि कर्माणि क्षपयति / तत्र निद्राप्रचले द्विचरमसमये क्षपयति / ततोऽस्य चरमसमये आवरणद्वयान्तरायक्षयात् केवलज्ञानदर्शनमुत्पद्यत इति / धर्मध्यानानुप्रवेशपरिकर्माणि च भावनादेशकालासनादीनि / तत्र चतस्रो भावना ज्ञान-दर्शन-चारित्र-वैराग्याख्याः / ज्ञाने नित्याभ्यासान्मनसस्तत्रैव प्रणिधानम्, अवगतगुणसारश्च निश्चलमतिरनायासेनैव धयं ध्यायति / तथा विगतशङ्कादिशल्यः प्रशम-संवेग-निर्वेदा-ऽनुकम्पा-ऽस्तिक्य-स्थैर्य-प्रभावना-यतनाऽऽसेवन-भक्तियुक्तोऽसम्मूढचेता दर्शनभावनया विमलीकृतमतिरस्खलितमेव धयं ध्यायति / तथा चरणभावनाधिष्ठितः कर्माण्यपराणि नादत्ते, पुरातननिर्जरणं शुभानि वा सञ्चिनुते / ततश्चायत्नेनैव धर्मध्यायी भवति / तथा जगत्कायस्वभावालोचनात् सुविदितजगत्स्वभावो निःसङ्गो निर्भयो विरागो वैराग्यभावनावष्टब्धचेता लीलयैव धर्मध्यायी भवति / देशोऽपि निष्कण्टको यः / कण्टकाः स्त्री-पशु-पण्डकाः / कालोऽपि यस्मिन्नेव काले मनसः समाधिरुत्पद्यते स एव ध्यानकालः / यथोक्तम् पत्थि कालो अकालो वा झायमाणस्स भिक्खुणो। आसनं तु कायावस्थाविशेषः / य एवाबाधकोऽभ्यस्तो जितः स एव कायविकल्प आसनम् / यथोक्तम्

Page Navigation
1 ... 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170