Book Title: Jaina Meditation Citta Samadhi Jaina Yoga
Author(s): Nathmal Tatia
Publisher: Jain Vishva Bharati
View full book text
________________ चित्त-समाधि : जैन योग सम्भवति / एतस्य त्रयः स्वामिनश्चतुर्थ-पञ्चम-षष्ठगुणस्थानवर्तिनः क्रमेणाविरतदेशविरतप्रमत्तसंयताः / अविरतश्चासौ सम्यग्दृष्टिश्चेत्यविरतसम्यग्दृष्टि: / अप्रत्याख्यानावरणोदये सति विरतिलक्षणस्य संयमस्याभावादविरतसम्यग्दृष्टि: / आह च आवृण्वन्ति प्रत्याख्यानं स्वल्पमपि येन जीवस्य / तेनाप्रत्याख्यानावरणास्ते नञ् हि सोऽल्पार्थः // प्रत्याख्यानावरणसदृक्त्वाद् वा तत् तथा भवति सिद्धम् / नन्वब्राह्मणवचने तत्सदृशः पुरुष एवेष्टः // औपशमिक-क्षायोपशमिक-क्षायिकभेदाच्च त्रिविधं सम्यग्दर्शनम्, तद्योगात्सम्यग्दृष्टिः / देशविरतः संयतासंयतः / हिंसादिभ्यो देशतो विरतत्वात् संयतः, अन्यतः सावधयोगादनिवृत्त इति स एवासंयतः / सोऽविरतसम्यग्दृष्टिस्थानादसंख्येयानि विशोधिस्थानानि गत्वा अप्रत्याख्यानावरणकषायेषु क्षयोपशमं नीतेषु प्रत्याख्यानावरणकषायोदयात् कृत्स्नप्रत्याख्यानाभावाद् देशविरतः / आह च तस्मादविरतसम्यग्-दृष्टिस्थानाद् विशोधिमुपगम्य / स्थानान्तराण्यनेकान्यारोहति पूर्वविधिनैव // क्षपयत्युपशमयति वा प्रत्याख्यानावृतः कषायांस्तान् / स ततो येन भवेत् तस्य विरमणे बुद्धिरल्पेऽल्पे // तस्य तथैव विशोधिस्थानान्यारोहतोऽतिसङ्ख्यानि / गच्छन्ति सर्वथाऽपि प्रकर्षतस्ते क्षयोपशमम् // श्रावकधर्मों द्वादशभेदः सजायते ततस्तस्य / पञ्चत्रिचतुःसङ्घयवतगुणशिक्षामयः शुद्धः॥ सर्व प्रत्याख्यानं येनावृण्वन्ति तदभिलषतोऽपि / तेन प्रत्याख्यानावरणास्ते निविशेषोक्त्या // इदानीं प्रमत्तसंयतः / तस्मादसङ्खये यानि विशोधिस्थानान्यारोहतस्तृतीयकषायेषु प्रकर्षात् क्षयोपशमं गतेषु सर्वसावद्ययोगप्रत्याख्यानविरतिर्भवति / उक्तं च देशविरतोऽपि ततः स्थानात् स विशोधिमुत्तमां प्राप्य / स्थानान्तराणि पूर्वविधिनैव संयात्यनेकानि // क्षपयत्युपशमयति वा प्रत्याख्यानावृतः कषायांस्तान् / स ततो येन भवेत् तस्य विरमणे सर्वतोऽपि मतिः // छेदोपस्थाप्यं वा वृत्तं सामायिकं चरित्रं वा / स ततो लभते प्रत्याख्यानावरणक्षयोपशमात् // तस्येदानी महाव्रतगुप्तिसमितियुक्तस्य कषायनिग्रहाद् इन्द्रियदमाच्च निरुद्धाश्रवस्य निर्वेदादिवैराग्यभावनाभिः स्थिरीकृतसंवेगस्य यथोक्तं द्वादशप्रकारतपोयोगात् सञ्चितानि

Page Navigation
1 ... 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170