Book Title: Jaina Meditation Citta Samadhi Jaina Yoga
Author(s): Nathmal Tatia
Publisher: Jain Vishva Bharati
View full book text
________________ वाचकश्रीमदुमास्वातिविरचितं तत्त्वार्थाधिगमसूत्रं स्वोपज्ञभाष्येण सिद्धसेनकृतटीकया च समलङ कृतम् ध्यानप्रकरणमात्रं !x.27 तः IX.46 पर्यन्तम् TIKA सम्यक्त्वादित्रयं मोक्षसाधनं, तत्रापि ध्यानं गरीयस्तन्निरूपणायाह-६ SUTRA उत्तमसंहननस्यकाग्रचिन्तानिरोधो ध्यानम् / (IX.27) BHASYA उत्तमसंहननं वज्रर्षभनाराचं वज्रनाराचं नाराचं अर्धनाराचं च। तद्युक्तस्यैकाग्रचिन्तानिरोधश्च ध्यानम् / (27) TIKA उत्तमं–प्रकृष्टं संहननम्-अस्थनां बन्धविशेषः / उत्तमं संहननमस्येत्युत्तमसंहननः / तदुत्तमसंहननं चतुर्विधं-वज्रर्षभनाराचं वज्रनाराचं नाराचमर्धनाराचम् / वज्र-कीलिका, ऋषभ:-पट्टः, नाराचो-मर्कटबन्धः / प्रथमं त्रितययुक्तम् / द्वितीयसंहनने पट्टो नास्ति / तृतीये वज्रर्षभो न स्तः / ततोऽवज्रर्षभमर्धवज्रर्षभं नाराचं चेत्यनेन चत्वारो भेदा: प्रतिपाद्या उत्तमसंहननवाच्याः / उत्तमसंहननग्रहणं निरोधे कार्ये प्रतिविशिष्टसामर्थ्यप्रतिपादनार्थम् / तस्योत्तमसंहननस्य एकाग्रचिन्तानिरोधो ध्यानम् / अग्रम्-आलम्बनम् / एकं च तदग्रं चेत्येकानम् एकालम्बनमित्यर्थः / एकस्मिन्नालम्बने चिन्तानिरोधः। चलं चित्तमेव चिन्ता, तन्निरोधस्तस्यकत्रावस्थापनमन्यत्राप्रचारो निरोधः / अतो निश्चलं स्थिरमध्यवसानमेकालम्बनं छद्मस्थविषयं ध्यानम् / केवलिनां पुनर्वाक्काययोगनिरोध एव ध्यानम्, अभावान्मनसः / नावाप्तकेवलस्य मनोव्यापारः समस्ति, सकलकरणग्रामनिरपेक्षत्वादिति / तद्युक्तस्येति तेन प्रतिविशिष्टेन संहननत्रयेणाद्येन चतुर्थेन वा युक्तस्य-सम्पन्नस्य एकाग्रचिन्तानिरोधः / चशब्दाद् वाक्-कायनिरोधश्च ध्यानम् / अत्र च ध्याता संसार्यात्मा / ध्यानस्वरूपमेकाग्रचिन्तानिरोधः / ध्यातिनिमिति भावसाधनः / कालतो मुहूर्तमात्रम् / चतुःप्रकारमादिभेदेन / ध्येयप्रकारास्त्वमनोज्ञविषयसंप्रयोगादयः / शोकाक्रन्दनविलपनादिलक्षणमार्तम्, उत्सन्नबह्वादिलक्षणं रौद्रम् / जिनप्रणीतभावश्रद्धानादिलिङ्ग धर्म्यम् / अबाधाऽसम्मोहादिलक्षणं शुक्लम् / फलं पुनस्तिर्यङ्-न रक-देवगत्यादिमोक्षाख्यमिति क्रमेण / उत्तमसंहननपदार्थलभ्यो ध्याता अभिहितः / ध्यानस्वरूपं भावसाधनता च विज्ञेया। (27) सम्प्रति ध्यानकालप्रमाणनिरूपणायाह

Page Navigation
1 ... 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170