________________
एकविंशतिः शबलाः
८५१
(छाया - एकविंशतिः शबलाः प्रज्ञप्ताः, तद्यथा हस्तकर्म कुर्वन् शबलः १ मैथुनं प्रतिसेवमानः शबलः २ रात्रिभोजनं भुञ्जानः शबल: ३ आधाकर्म भुञ्जानः शबल: ४ सागारिकं पिण्डं भुञ्जानः शबल: ५ औद्देशिकं क्रीतं आहृत्य दीयमानं भुञ्जानः शबलः ६ अभीक्ष्णं प्रत्याख्याय णं भुञ्जानः शबलः ७ अन्तः षण्णां मासानां गणात् गणं सङ्क्रामन् शबलः ८ अन्तर्मासस्य त्रीन् उदकलेपान् कुर्वन् शबल: ९ अन्तर्मासस्य त्रीणि मायास्थानानि सेवमानः शबलः १० राजपिण्डं भुञ्जानः शबलः ११ आकुट्ट्या प्राणातिपातं कुर्वन् शबलः १२ आकुट्ट्या मृषावादं वदन् शबलः १३ आकुट्ट्या अदत्तादानं गृह्णन् शबलः १४ आकुट्ट्या अनन्तर्हितायां पृथिव्यां स्थानं वा शय्यां वा नैषेधिकं वा चेतयन् शबल: १५ एवं आकुट्ट्या चित्तवत्यां पृथिव्यां एवं आकुट्ट्या चित्तवत्यां शिलायां कोलावासे वा दारुणि स्थानं वा शय्यां वा नैषेधिकं वा चेतयन् शबल: १६ जीवप्रतिष्ठिते सप्राणे सबीजे सहरिते सोत्तिङ्गे पनकोदकमृत्तिकामर्कटसन्तानके तथाप्रकारे स्थानं वा शय्यां वा नैषेधिकं वा चेतयन् शबलः १७ आकुट्ट्या मूलभोजनं वा कन्दभोजनं वा त्वग्भोजनं वा प्रवालभोजनं वा पुष्पभोजनं वा फलभोजनं वा हरितभोजनं वा भुञ्जानः शबलः १८ अन्तः संवत्सरस्य दश उदकलेपान् कुर्वन् शबलः १९ अन्तः संवत्सरस्य दश मायास्थानानि सेवमानः शबलः २० अभीक्ष्णं २ शीतोदकविकटप्रलम्बितपाणिना अशनं वा पानं वा खादिमं वा स्वादिमं वा प्रतिगृह्य भुञ्जानः शबलः ॥२१॥ )
-
वृत्तिः - अथैकविंशतितमस्थानकं, तत्र चत्वारि सूत्राणि स्थितिसूत्रैर्विना सुगमानि, नवरं शबलं कुर्बरं चारित्रं यैः क्रियाविशेषैर्भवति ते शबलास्तद्योगात्साधवोऽपि, ते एवं तत्र हस्तकर्मवेदविकारविशेषं कुर्वन्नुपलक्षणत्वात्कारयन् वा शबलो भवत्येकः १ एवं मैथुनं प्रतिसेवमानोऽतिक्रमादिभिस्त्रिभिः प्रकारैः २ तथा रात्रिभोजनं दिवागृहीतं दिवाभुक्तमित्यादिभिश्चतुर्भिर्भङ्गकैरतिक्रमादिभिश्च भुञ्जानः ३ तथा आधाकर्म ४ सागारिकःस्थानदाता तत्पिण्डं ५ औद्देशिकं क्रीतमाहृत्य दीयमानं (च) भुञ्जानः उपलक्षणत्वात्पामिच्चाच्छेद्यानिसृष्टग्रहणमपीह द्रष्टव्यमिति ६, यावत्करणोपात्तपदान्येवमर्थतोऽवगन्तव्यानि, अभीक्ष्णं २ प्रत्याख्यायाशनादि भुञ्जानः ७ अन्तः षण्णां मासानामेकतो गणाद्गणमन्यं सङ्क्रामन् ८ अन्तर्मासस्य त्रीनुदकलेपान् कुर्वन्, उदकलेपश्च नाभिप्रमाणजलावगाहनमिति, ९ अन्तर्मासस्य त्रीणि मायास्थानानि, स्थानमिति भेदः, १० राजपिण्डं भुञ्जानः, ११, आकुट्ट्या प्राणातिपातं कुर्वन् उपेत्य पृथिव्यादिकं हिंसन्नित्यर्थः, १२ आकुट्ट्या मृषावादं वदन्, १३ अदत्तादानं गृह्णन्, १४ आकुट्यैवानन्तर्हितायां पृथिव्यां