Book Title: Gurugun Shattrinshtshatrinshika Kulak Part 03
Author(s): Ratnabodhivijay
Publisher: Jinshasan Aradhana Trust
View full book text
________________
सप्तविधं विभङ्गज्ञानम्
११०५ 'तथा सप्तविधमेव सप्तप्रकारमेव 'नाणविब्भंग'न्ति पूर्वापरनिपातनाद्विभङ्गज्ञानं, तत्र विरुद्धो वितथो वा, अयथावस्तु विकल्पो यस्मिंस्तद्विभङ्गं तच्च तज्ज्ञानं च साकारत्वादिति विभङ्गज्ञानं मिथ्यात्वसहितावधिरित्यर्थः । तच्चैवं सप्तविधं-एकदिशि लोकाभिगमः, एकस्यां दिशि एकया दिशा पूर्वादिकयेत्यर्थः लोकाभिगमो लोकावबोध इत्येकं विभङ्गज्ञानं, विभङ्गता चास्य शेषदिक्षु लोकस्यानभिगमेन तत्प्रतिषेधनादिति ।१। तथा पञ्चसु दिक्षु लोकाभिगमो नैकस्यां कस्याञ्चिदिति, इहापि विभङ्गता एकदिशि लोकनिषेधादिति ।२। तथा क्रियावरणो जीवः, क्रियामात्रस्यैव प्राणातिपातादेर्जीवैः क्रियमाणस्य दर्शनात्तद्धेतुकर्मणश्चादर्शनात्क्रियैवावरणं कर्म यस्य स क्रियावरणः, कौऽसौ ? जीव इत्यवष्टम्भपरं यद्विभङ्गं तत्तृतीयम् । विभङ्गता चास्य कर्मणोऽदर्शनेनानभ्युपगमादेवमुत्तरत्रापि विभङ्गता समवसेयेति ।३। मुदग्रे(ग्गे) जीवे, शरीरावगाहक्षेत्रबाह्याभ्यन्तरपुद्गलरचितशरीरो जीव इत्यवष्टम्भवत्, भवनपत्यादिदेवानां बाह्याभ्यन्तरपुद्गलपर्यादानतो वैक्रियकरणदर्शनादिति चतुर्थम् ॥४॥ अमुदग्रे(ग्गे)जीवे, देवानां बाह्याभ्यन्तरपुद्गलादानविरहेण वैक्रियवतां दर्शनादबाह्याभ्यन्तरपुद्गलरचितावयवशरीरो जीव इत्य(ध्य)वसायवत्पञ्चमम् ।५। रूविं जीवे, देवानां वैक्रियशरीरवतां दर्शनाद्रूप्येव जीव इत्येवमवष्टम्भवत् षष्ठमिति ॥६॥ सव्वमिणं जीवा, वायुना चलतः पुद्गलकायस्य दर्शनात्सर्वमेवेदं वस्तु जीवा एव चलनधर्मोपेतत्वादिति एवंनिश्चयवत्सप्तममिति ॥७॥'
गुरुर्द्विविधं धर्मं जानाति प्ररूपयति च । धर्मो द्विविधः श्रमणधर्मश्रावकधर्मभेदात् । तत्र श्रमणधर्मः पञ्चमहाव्रतरूपो दशविधयतिधर्मरूपो वा । पञ्चमहाव्रतानां स्वरूपं प्रोक्तं द्वितीयपविशिकावृत्तौ । दशविधयतिधर्मस्य स्वरूपं प्रपञ्चितं द्वादशषट्विशिकावृत्तौ । श्रावकधर्मः सम्यक्त्वमूलद्वादशव्रतरूपः । पञ्चविधसम्यक्त्वस्वरूपं विवेचितं द्वितीयषट्विशिकावृत्तौ । द्वादशव्रतस्वरूपं प्रदर्शितं चतुर्दशषट्विशिकावृत्तौ । इत्थं गुरुः षट्त्रिंशद्गुणैर्विभूषितो भवति ॥६४९॥ ___ 'इच्चाइ' इत्यादि । एवं गुरुगुणानामष्टचत्वारिंशित् षट्विशिकाः प्रोक्ताः । गुरोर्न केवलमेतावन्त एव गुणाः । गुरुरेवम्प्रकारैरनेकगुणगणशतैरलङ्कृतो भवति । तेषां सर्वेषां गुणानां वर्णनं कर्तुमस्माभिरशक्यम् । अतस्तेषां स्तोकगुणा अत्र वर्णिताः । गुरुः सुविहितानां साधूनां हितं करोति । एवम्प्रकारोऽतिप्रशस्त आचार्यः गच्छे-साधुसमुदाये मेथिसम:आधारसमो भवति इति तीर्थकरगणधरैः कथितम् ॥६५०॥

Page Navigation
1 ... 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402