________________
सप्तविंशतिविधा अनगारगुणाः
___ ९११ (छाया- व्रतषट्कमिन्द्रियाणां च निग्रहो भावकरणसत्यं च ।
क्षमा विरागतापि च मनआदिनां निरोधश्च ॥१॥ कायानां षट्कं योगानां युक्तता वेदनाऽभिसहनता ।
तथा मारणान्तिकाऽभिसहना च एतेऽनगारगुणाः ॥२॥) वृत्तिः - गाथाद्वयम्, अस्य व्याख्या - व्रतषट्कं-प्राणातिपातादिविरतिलक्षणं रात्रिभोजनविरतिपर्यवसानम्, इन्द्रियाणां च श्रोत्रादीनां निग्रहः-इष्टेतरेषु शब्दादिषु रागद्वेषाकरणमित्यर्थः, भावसत्यं-भावलिङ्गम् अन्तःशुद्धिः, करणसत्यं च बाह्यं प्रत्युपेक्षणादिकरणसत्यं भण्यते, क्षमा क्रोधनिग्रहः, विरागता लोभनिग्रहः, मनोवाक्कायानामकुशलानामकरणं कुशलानामनिरोधश्च, कायानां-पृथिव्यादीनां षट्कं सम्यगनुपालनविषयतयाऽनगारगुणा इति, संयमयोगयुक्तता, वेदना-शीतादिलक्षणा तदभिसहना वा, तथा मारणान्तिकाऽभिसहना च-कल्याणमित्रबुद्ध्या मारणान्तिकोपसर्गसहनमित्यर्थः एतेऽनगारगुणा इति गाथाद्वयार्थः ॥१॥ ॥२॥'
गुरोः शरीरमेतैः सप्तविंशतिगुणैरलङ्कृतमस्ति । गुरुणा बाह्यान्यलङ्काराणि त्यक्तानि । स नित्यमेतानि सप्तविंशतिविधान्याभ्यन्तरालङ्काराणि धारयति ।
कोटि:-पिण्डपानग्रहणप्रकारः । सा नवविधा । तद्यथा - १ न हन्ति, २ न घातयति, ३ घ्नन्तं न समनुजानाति, ४ न पचति, ५ न पाचयति, ६ पचन्तं न समनुजानाति, ७ न क्रीणाति, ८ न क्रापयति, ९ क्रीणन्तञ्च न समनुजानाति । उक्तञ्च गाथासहस्त्र्याम् -
'न हणइ न हणावेइ, हणंतं नाणुजाणइ । न पयइ न पयावेइ, पयंतं नाणुजाणइ ॥४००॥ न किणइ न किणावेइ, किणंतं नाणुजाणइ ।
जो भिक्खू तस्स तं होइ, नवकोडिविसुद्धयं ॥४०१॥' (छाया- न हन्ति न घातयति, घ्नन्तं नानुजानाति ।
न पचति न पाचयति, पचन्तं नानुजानाति ॥४००।