SearchBrowseAboutContactDonate
Page Preview
Page 120
Loading...
Download File
Download File
Page Text
________________ सप्तविंशतिविधा अनगारगुणाः ___ ९११ (छाया- व्रतषट्कमिन्द्रियाणां च निग्रहो भावकरणसत्यं च । क्षमा विरागतापि च मनआदिनां निरोधश्च ॥१॥ कायानां षट्कं योगानां युक्तता वेदनाऽभिसहनता । तथा मारणान्तिकाऽभिसहना च एतेऽनगारगुणाः ॥२॥) वृत्तिः - गाथाद्वयम्, अस्य व्याख्या - व्रतषट्कं-प्राणातिपातादिविरतिलक्षणं रात्रिभोजनविरतिपर्यवसानम्, इन्द्रियाणां च श्रोत्रादीनां निग्रहः-इष्टेतरेषु शब्दादिषु रागद्वेषाकरणमित्यर्थः, भावसत्यं-भावलिङ्गम् अन्तःशुद्धिः, करणसत्यं च बाह्यं प्रत्युपेक्षणादिकरणसत्यं भण्यते, क्षमा क्रोधनिग्रहः, विरागता लोभनिग्रहः, मनोवाक्कायानामकुशलानामकरणं कुशलानामनिरोधश्च, कायानां-पृथिव्यादीनां षट्कं सम्यगनुपालनविषयतयाऽनगारगुणा इति, संयमयोगयुक्तता, वेदना-शीतादिलक्षणा तदभिसहना वा, तथा मारणान्तिकाऽभिसहना च-कल्याणमित्रबुद्ध्या मारणान्तिकोपसर्गसहनमित्यर्थः एतेऽनगारगुणा इति गाथाद्वयार्थः ॥१॥ ॥२॥' गुरोः शरीरमेतैः सप्तविंशतिगुणैरलङ्कृतमस्ति । गुरुणा बाह्यान्यलङ्काराणि त्यक्तानि । स नित्यमेतानि सप्तविंशतिविधान्याभ्यन्तरालङ्काराणि धारयति । कोटि:-पिण्डपानग्रहणप्रकारः । सा नवविधा । तद्यथा - १ न हन्ति, २ न घातयति, ३ घ्नन्तं न समनुजानाति, ४ न पचति, ५ न पाचयति, ६ पचन्तं न समनुजानाति, ७ न क्रीणाति, ८ न क्रापयति, ९ क्रीणन्तञ्च न समनुजानाति । उक्तञ्च गाथासहस्त्र्याम् - 'न हणइ न हणावेइ, हणंतं नाणुजाणइ । न पयइ न पयावेइ, पयंतं नाणुजाणइ ॥४००॥ न किणइ न किणावेइ, किणंतं नाणुजाणइ । जो भिक्खू तस्स तं होइ, नवकोडिविसुद्धयं ॥४०१॥' (छाया- न हन्ति न घातयति, घ्नन्तं नानुजानाति । न पचति न पाचयति, पचन्तं नानुजानाति ॥४००।
SR No.022277
Book TitleGurugun Shattrinshtshatrinshika Kulak Part 03
Original Sutra AuthorN/A
AuthorRatnabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year2014
Total Pages402
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy