________________
अष्टाविंशतितमी षट्त्रिशिका साम्प्रतमष्टाविंशतितमी षट्विंशिकामाह - . मूलम् - सत्तावीसविहेहिं, अणगारगुणेहिं भूसियसरीरो ।
नवकोडिसुद्धगाही, छत्तीसगुणो गुरू जयउ ॥२९॥ छाया - सप्तविंशतिविधैः, अनगारगुणैः भूषितशरीरः।
नवकोटिशुद्धग्राही, षट्त्रिंशद्गुणो गुरुर्जयतु ॥२९॥ प्रेमीया वृत्तिः - सप्तविंशतिविधैः - सप्तविंशतिप्रकारैः, अनगारगुणैः - साधुगुणैः, भूषितशरीर: - मण्डितदेहः, तथा नवकोटिशुद्धग्राही - नवभिः कोटिभिः शुद्धमाहारादि ग्रहीतुं शीलमस्येति, इति षट्त्रिंशद्गुणो गुरुर्जयत्विति समासार्थः ।
व्यासार्थस्त्वयम् - न विद्यते अगारं यस्य सोऽनगारः - मुनिः, तस्य गुणा इति अनगारगुणाः । ते सप्तविंशतिविधाः । तद्यथा - १-६ व्रतषट्कं, ७-११ पञ्चेन्द्रियनिग्रहः, १२ भावसत्यं, १३ करणसत्यं, १४ क्षमा, १५ विरागता, १६-१८ अकुशलमनोवाक्कायनिरोधः, १९-२४ षट्कायरक्षा, २५ संयमयोगयुक्तता, २६ वेदनाभिसहनता, २७ मरणान्तोपसर्गसहनञ्च । यदवाचि आवश्यकसूत्रवृत्तौ -
'सप्तविंशतिप्रकारेऽनगारचारित्रे सति-साधुचारित्रे सति तद्विषयो वा प्रतिषिद्धादिना प्रकारेण योऽतिचारः कृत इति प्राग्वत्, सप्तविंशतिभेदान् प्रतिपादयन्नाह सङ्ग्रहणिकार: -
वयछक्कमिदियाणं च निग्गहो भावकरणसच्चं च। खमया विरागयावि य मणमाईणं निरोहो य ॥१॥ कायाण छक्क जोगाण जुत्तया वेयणाऽहियासणया। तह मारणंतियऽहियासणा य एएऽणगारगुणा ॥२॥