Book Title: Gurugun Shattrinshtshatrinshika Kulak Part 03
Author(s): Ratnabodhivijay
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 308
________________ अष्टौ प्रवचनमातरः १०९९ भुञ्जीत, अन्यथा ब्रह्मव्रतविराधक: स्यात् प्रथमा भावना, अविभूषितात्मा स्याद् - विभूषां न कुर्याद्, अन्यथा ब्रह्मव्रतविराधक: स्यात् द्वितीया भावना, स्त्रियं न निरीक्षेत तदव्यतिरेकादिन्द्रियाणि नाऽऽलोकयेद्, अन्यथा ब्रह्मविराधकः स्यात् तृतीया भावना, 'न संथवेज्ज'त्ति न स्त्र्यादिसंसक्तां वसति सेवेत, अन्यथा ब्रह्मविराधकः स्यात् चतुर्थी भावना, बुद्धः - अवगततत्त्वः मुनिः साधुः क्षुद्रकथां न कुर्यात् स्त्रीकथां स्त्रीणां वेति, अन्यथा ब्रह्मविराधक: स्यात् पञ्चमी भावना, 'धम्मपेही संधए बंभचेरं ति निगदसिद्धम्, उक्ताश्चतुर्थव्रतभावनाः ॥४॥ पञ्चमव्रतभावनाः प्रोच्यन्ते-यः शब्दरूपरसगन्धानागतान्, प्राकृतशैल्याऽलाक्षणिकोऽनुस्वारः, स्पर्शाश्च सम्प्राप्य मनोज्ञपापकान्-इष्टानिष्टानित्यर्थः, गृद्धिम्-अभिष्वङ्गलक्षणां, प्रद्वेषः प्रकटस्तं न कुर्यात् पण्डितः, स भवति दान्तो विरतोऽकिञ्चन इति, अन्यथाऽभिष्वङ्गादेः पञ्चममहाव्रतविराधना स्यात्, पञ्चापि भावनाः, उक्ताः पञ्चमहाव्रतभावनाः ॥५॥ -- गुरुरेकादशाङ्गानि बुद्धौ धारयति । दृष्टिवादाख्यद्वादशाङ्गरहितानि त्रयोदशषट्त्रिशिकावृत्त्युक्तद्वादशाङ्गान्येव एकादशाङ्गानि । इत्थं गुरोः षट्त्रिंशद्गुणा भवन्ति ॥६४५।। 'तह' इत्यादि । गुरुादशाङ्गानि दशप्रकीर्णकानि षट्छेदग्रन्थान् चतुर्मूलग्रन्थान् नन्दिसूत्रमनुयोगद्वारसूत्रञ्च धारयति । तत्र द्वादशाङ्गस्वरूपमुक्तं त्रयोदशषट्त्रिशिकावृत्तौ । दश प्रकीर्णकानि चतुःशरण-भक्तपरिज्ञा-संस्तारक-आतुरप्रत्याख्यान-महाप्रत्याख्यानतन्दुलवैचारिक-चन्द्रवेध्यक-देवेन्द्रस्तव-गणिविद्या-मरणसमाधि-नामधेयानि । षट्छेदग्रन्थाः दशाश्रुतस्कन्ध-बृहत्कल्प-व्यवहार-जीतकल्प-निशीथ-महानिशीथसञ्जकाः । चतुर्मूलग्रन्था आवश्यक-दशवैकालिक-उत्तराध्ययन-ओघनियुक्ति (पिण्डनियुक्ति)-अभिधेयाः ।। गुरू रागद्वेषौ न करोति । इत्थं गुरोः षट्त्रिशद् गुणा भवन्ति ॥६४६॥ 'नाणम्मि' इत्यादि । 'दसविह' इत्यादि । गुरुर्ज्ञानदर्शनचरणतपोवीर्येषु करणकारणानुमतिभिः प्रवर्तते । एवं गुरोः पञ्चदश गुणा भवन्ति । गुरुर्दशविधसामाचार्यां कुशलो भवति । तस्याः स्वरूपं प्रोक्तं दशमषट्विशिकावृत्तौ । गुरुः पञ्च समिती: पालयति । गुरुः पञ्चविधं स्वाध्यायं करोति। पञ्चविधसमितिपञ्चविधस्वाध्यायस्वरूपं वर्णितं द्वितीयषत्रिशिकावृत्तौ । गुरुरप्रमत्तो भवति । इत्थं षट्त्रिंशद् गुरुगुणा भवन्ति ॥६४७-६४८॥

Loading...

Page Navigation
1 ... 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402