________________
षट्त्रिंशत्तमी षट्त्रिशिका
साम्प्रतं षट्त्रिंशत्तमीमन्तिमां षट्त्रिशिकामाह
मूलम् - गणिसंपयट्ठचउविह, बत्तीसं तेसु निच्चमाउत्तो । चउविहविणयपवित्तो, छत्तीसगुणो गुरू जयउ ॥३७॥
छाया - गणिसम्पदष्टचतुर्विधाः, द्वात्रिंशद् तासु नित्यमायुक्तः । चतुर्विधविनयप्रवृत्तः, षट्त्रिंशद्गुणो गुरुर्जयतु ॥३७॥
प्रेमीया वृत्तिः - द्वात्रिंशत् - द्वात्रिंशत्सङ्ख्याः, गणिसम्पदष्टचतुर्विधाः - प्रत्येकं चतुर्विधाः अष्टौ गणिसम्पदः, सन्तीत्यध्याहार्यम्, तासु - द्वात्रिंशद्भिः गणिसम्पद्भिः, नित्यं - सदा, आयुक्तः-समन्वितः, तथा चतुर्विधविनयप्रवृत्तः - चतुर्विधेषु विनयेषु प्रवृत्त:, इति षट्त्रिशद्गुणो गुरुर्जयत्वित्यक्षरगमनिका ।
—
उपनिषदर्थस्त्वयम् – गणः साधुसमुदायोऽस्त्यस्येति गणी - आचार्य: । तस्य सम्पत् - भावसमृद्धिरिति गणिसम्पत् । साऽष्टविधा । तद्यथा १ आचारसम्पत्, २ श्रुतसम्पत्, ३ शरीरसम्पत्, ४ वचनसम्पत्, ५ वाचनासम्पत्, ६ मतिसम्पत्, ७ प्रयोगमतिसम्पत्, ८ सङ्ग्रहपरिज्ञासम्पच्च । एताः प्रत्येकं चतुर्विधाः । तद्यथा आचारसम्पदश्चतुर्विधत्वमेवं - १ चरणयुतः, २ मदरहितः, ३ अनियतवृत्तिः, ४ अचञ्चलश्च । श्रुतसम्पदश्चतुर्विधत्वमेवं १ युगप्रधानागमः, २ परिचितसूत्रः, ३ उत्सर्गी, ४ उदात्तघोषादिश्च । शरीरसम्पदश्चतुर्विधत्वमेवं - १ समचतुरस्त्रसंस्थानः, २ अकुण्टादिः, ३ बधिरत्वादिवर्जितः, ४ तपसि शक्तश्च । वचनसम्पदश्चतुर्विधत्वमेवं
-
"
१ वादी, २ मधुरवचनः ३ अनिश्रितवचनः, ४ स्फुटवचनश्च । वाचनासम्पदश्चतुर्विधत्वमेवं - १ योग्यवाचनः, २ परिणतवाचनः, ३ वाचनाया निर्यापकः, ४ अर्थस्य च निर्वाहकः । मतिसम्पदश्चतुर्विधत्वमेवं - १ अवग्रहः, २ ईहा, ३ अवायः,