Book Title: Gurugun Shattrinshtshatrinshika Kulak Part 03
Author(s): Ratnabodhivijay
Publisher: Jinshasan Aradhana Trust
View full book text
________________
ग्रन्थान्तरगतगुरुगुणपट्चिशिकाः
१०८७ "विहिपडिवण्ण' इत्यादि । गुरुर्विधिना चारित्रं प्रतिपन्नोऽस्ति । स गीतार्थ:स्वभ्यस्तछेदग्रन्थ उत्सर्गापवादकुशल इति यावद् भवति । स वात्सल्यवान् भवति । स सुशीलः-निर्मलब्रह्मचर्यधरो भवति । तेन गुरुकुलवासः सेवितः - आराधितो भवति । स अनुवृत्तिपरः - शिष्यमनोऽनुकूलवर्तने उद्यतो भवति । एवंप्रकारगुणगणमण्डितो गुरुः कथितस्तीर्थकरगणधरैः । यदुक्तं पञ्चवस्तुकतद्वृत्त्योः -
'पव्वज्जाजोग्गगुणेहि, संगओ विहिपवण्णपव्वज्जो ।
सेविअगुरुकुलवासो, सययं अक्खलिअसीलो अ॥१०॥ वृत्तिः - प्रव्रज्यायोग्यस्य प्राणिनो गुणाः प्रव्रज्यायोग्यगुणा आर्यदेशोत्पन्नादयो वक्ष्यमाणाः, तथाऽन्यत्राप्युक्तम् “अथ प्रव्रज्याऽर्हः-आर्यदेशोत्पन्नः १ विशिष्टजातिकुलान्वितः २ क्षीणप्रायकर्ममलः ३ तत एव विमलबुद्धिः ४ दुर्लभं मानुष्यं जन्म मरणनिमित्तं सम्पदश्चपलाः विषया दुःखहेतवः संयोगो वियोगः प्रतिक्षणं मरणं दारुणो विपाक इत्यवगतसंसारनैर्गुण्यः ५ तत एव तद्विरक्तः ६ प्रतनुकषायोऽल्पहास्यादिः ७-८ कृतज्ञो ९ विनीतः १० प्रागपि राजाऽमात्यपौरजनबहुमत: ११ अद्रोहकारी १२ कल्याणाङ्गः १३ श्राद्धः १४ स्थिरः १५ समुपसम्पन्नश्चेति १६", एभिः सङ्गतो युक्तः समेतः सन् किं ? इत्याह - विधिप्रपन्नप्रवज्यो विधिना वक्ष्यमाणलक्षणेन प्रपन्नाऽङ्गीकृता प्रव्रज्या येन स तथाविधः, तथा सेवितगुरुकुलवासः समुपासितगुरुकुल इत्यर्थः, सततं सर्वकालं प्रव्रज्याप्रतिपत्तेरारभ्य अस्खलितशीलश्च अखण्डितशीलश्च, चशब्दात् परद्रोहविरतिभावश्च इति गाथार्थः ॥१०॥
सम्मं अहीअसुत्तो, तत्तो विमलयरबोहजोगाओ।
तत्तण्णू उवसंतो, पवयणवच्छलजुत्तो अ ॥११॥ वृत्तिः - सम्यग् - यथोक्तयोगविधानेन अधीतसूत्रः गृहीतसूत्रः ततो विमलतरबोधयोगात् इति ततः सूत्राध्ययनाद्यः शुद्धतरावगमस्तत्सम्बन्धादित्यर्थः । किमित्याह तत्त्वज्ञः वस्तुतत्त्ववेदी उपशान्तः क्रोधविपाकावगमेन प्रवचनवात्सल्ययुक्तश्च-प्रवचनमिह सङ्घः सूत्रं वा, तद्वत्सलभावयुक्तः । इति गाथार्थः ॥११॥
सत्तहिअरओ अतहा, आएओ अणवत्तगो अ गंभीरो ।
अविसाई परलोए, उवसमलद्धीइ कलिओ अ ॥१२॥ वृत्तिः - सत्त्वहितरतश्च सामान्येनैव जीवहिते सक्तश्च तथा न केवलमित्थंविधः किन्तु आदेयोऽनुवर्तकश्च गम्भीरः तत्रादेयो नाम ग्राह्यवाक्यः, अनुवर्तकश्च भावानु

Page Navigation
1 ... 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402