SearchBrowseAboutContactDonate
Page Preview
Page 296
Loading...
Download File
Download File
Page Text
________________ ग्रन्थान्तरगतगुरुगुणपट्चिशिकाः १०८७ "विहिपडिवण्ण' इत्यादि । गुरुर्विधिना चारित्रं प्रतिपन्नोऽस्ति । स गीतार्थ:स्वभ्यस्तछेदग्रन्थ उत्सर्गापवादकुशल इति यावद् भवति । स वात्सल्यवान् भवति । स सुशीलः-निर्मलब्रह्मचर्यधरो भवति । तेन गुरुकुलवासः सेवितः - आराधितो भवति । स अनुवृत्तिपरः - शिष्यमनोऽनुकूलवर्तने उद्यतो भवति । एवंप्रकारगुणगणमण्डितो गुरुः कथितस्तीर्थकरगणधरैः । यदुक्तं पञ्चवस्तुकतद्वृत्त्योः - 'पव्वज्जाजोग्गगुणेहि, संगओ विहिपवण्णपव्वज्जो । सेविअगुरुकुलवासो, सययं अक्खलिअसीलो अ॥१०॥ वृत्तिः - प्रव्रज्यायोग्यस्य प्राणिनो गुणाः प्रव्रज्यायोग्यगुणा आर्यदेशोत्पन्नादयो वक्ष्यमाणाः, तथाऽन्यत्राप्युक्तम् “अथ प्रव्रज्याऽर्हः-आर्यदेशोत्पन्नः १ विशिष्टजातिकुलान्वितः २ क्षीणप्रायकर्ममलः ३ तत एव विमलबुद्धिः ४ दुर्लभं मानुष्यं जन्म मरणनिमित्तं सम्पदश्चपलाः विषया दुःखहेतवः संयोगो वियोगः प्रतिक्षणं मरणं दारुणो विपाक इत्यवगतसंसारनैर्गुण्यः ५ तत एव तद्विरक्तः ६ प्रतनुकषायोऽल्पहास्यादिः ७-८ कृतज्ञो ९ विनीतः १० प्रागपि राजाऽमात्यपौरजनबहुमत: ११ अद्रोहकारी १२ कल्याणाङ्गः १३ श्राद्धः १४ स्थिरः १५ समुपसम्पन्नश्चेति १६", एभिः सङ्गतो युक्तः समेतः सन् किं ? इत्याह - विधिप्रपन्नप्रवज्यो विधिना वक्ष्यमाणलक्षणेन प्रपन्नाऽङ्गीकृता प्रव्रज्या येन स तथाविधः, तथा सेवितगुरुकुलवासः समुपासितगुरुकुल इत्यर्थः, सततं सर्वकालं प्रव्रज्याप्रतिपत्तेरारभ्य अस्खलितशीलश्च अखण्डितशीलश्च, चशब्दात् परद्रोहविरतिभावश्च इति गाथार्थः ॥१०॥ सम्मं अहीअसुत्तो, तत्तो विमलयरबोहजोगाओ। तत्तण्णू उवसंतो, पवयणवच्छलजुत्तो अ ॥११॥ वृत्तिः - सम्यग् - यथोक्तयोगविधानेन अधीतसूत्रः गृहीतसूत्रः ततो विमलतरबोधयोगात् इति ततः सूत्राध्ययनाद्यः शुद्धतरावगमस्तत्सम्बन्धादित्यर्थः । किमित्याह तत्त्वज्ञः वस्तुतत्त्ववेदी उपशान्तः क्रोधविपाकावगमेन प्रवचनवात्सल्ययुक्तश्च-प्रवचनमिह सङ्घः सूत्रं वा, तद्वत्सलभावयुक्तः । इति गाथार्थः ॥११॥ सत्तहिअरओ अतहा, आएओ अणवत्तगो अ गंभीरो । अविसाई परलोए, उवसमलद्धीइ कलिओ अ ॥१२॥ वृत्तिः - सत्त्वहितरतश्च सामान्येनैव जीवहिते सक्तश्च तथा न केवलमित्थंविधः किन्तु आदेयोऽनुवर्तकश्च गम्भीरः तत्रादेयो नाम ग्राह्यवाक्यः, अनुवर्तकश्च भावानु
SR No.022277
Book TitleGurugun Shattrinshtshatrinshika Kulak Part 03
Original Sutra AuthorN/A
AuthorRatnabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year2014
Total Pages402
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy