________________
१०८८
ग्रन्थान्तरगतगुरुगुणषट्रिशिकाः कूल्येन सम्यक्पालकः गम्भीरो-विपुलचित्तः अविषादी परलोके न परिषहाद्यभिद्रुतः कायसंरक्षणादौ दैन्यमुपयाति, उपशमलब्ध्यादिकलितश्च उपशमलब्ध्यु १ पकरणलब्धि २ स्थिरहस्तलब्धि ३ युक्तश्च । इति गाथार्थः ॥१२॥
तह पवयणत्थवत्ता, सगुरुअणुन्नायगुरुपओ चेव ।
एआरिसो गुरू खलु, भणिओ रागाइरहिएहिं ॥१३॥ वृत्तिः - तथा प्रवचनार्थवक्ता-सूत्रार्थवक्तेत्यर्थः, स्वगुर्वनुज्ञातगुरुपदश्चैव असति तस्मिन् दिगाचार्यादिना स्थापितगुरुपद इत्यर्थः, ईदृशो गुरुः खलुशब्दोऽवधारणार्थः, ईदृश एव, कालदोषादन्यतरगुणरहितोऽपि बहुतरगुणयुक्त इति वा विशेषणार्थः, भणितो रागादिरहितैः प्रतिपादितो वीतरागैः । इति गाथार्थः ॥१३॥' ॥५९९॥
'देसकुल' इत्यादि । 'जियपरिसो' इत्यादि । 'पंचविहे' इत्यादि । 'ससमय' इत्यादि । एतेषां चतुर्णा वृत्तानां भावार्थः पूर्वं प्रवचनसारोद्धारवृत्तिगतपाठे उक्तः ॥६००॥ ॥६०१॥ ॥६०२॥ ॥६०३॥
'अट्ठविहा' इत्यादि । अस्य वृत्तस्य वर्णनं षट्त्रिंशत्तमषट्विशिकावृत्तौ कृतम् ॥६०४॥
'सम्मत्त' इत्यादि । गुरुरष्टविधदर्शनाचारानष्टविधज्ञानाचारानष्टविधचारित्राचारान् द्वादशविधांश्च तपआचारान् जानाति पालयति च । अष्टविधदर्शनाचाराः अष्टविधज्ञानाचारा अष्टविधचारित्राचाराश्च षष्ठषट्विशिकावृत्तौ निरूपिताः । द्वादशविधतपआचाराश्च षोडशषट्विशिकावृत्तौ प्रपञ्चिताः । इत्थं गुरोः षट्विशद् गुणा भवन्ति ।
अस्य वृत्तस्य भावार्थः पूर्वं प्रवचनसारोद्धारगतगुरुगुणषट्त्रिंशिका प्रतिपादनावसरे ५४८तम वृत्ततद्वृत्त्योः प्रोक्तः । ॥६०५॥
'आयाराइ' इत्यादि । गुरुराचारवत्त्वाद्यष्टगुणवान्भवति । तेऽष्टौ गुणाः षष्ठषट्विशिकावृत्तौ निदर्शिताः । गुरुर्दशविधस्थितकल्पं जानाति प्ररूपयति च । तस्य स्वरूपमेवमुक्तं पञ्चाशकप्रकरणे तद्वत्तौ च -
'दसहोहओ उ कप्पो एस उ पुरिमेयराण ठियकप्पो ।
सययासेवणभावा ठियकप्पो णिच्चमज्जाया ॥१७/२॥ (छाया- दशधा ओघतः तु कल्पः एष तु पूर्वेतराणां स्थितकल्पः ।
सततासेवनाभावात् स्थितकल्पः नित्यमर्यादा ॥१७/२॥)