________________
दशविधः स्थितकल्पः
१०८९
वृत्तिः - तत्र स्थितकल्पप्रतिपादनायाह - 'दसे' त्यादि, दशधा - दशभिः प्रकारैः ओघतः - सामान्येन स चाचेलक्यादिर्वक्ष्यमाणः तुशब्दः पुनरर्थः भिन्नक्रमश्च कल्पो व्यवस्था, एष तु - एष पुनः सामान्यकल्पः पूर्वेतराणां आदिमान्तिमजिनसाधूनां स्थितअवस्थितकल्प उच्यते, कुतः ? सततासेवनाभावाद्-निरन्तराचरणसद्भावादिति, तत्त्वत एवं निरूप्याथैनमेवं पर्यायत आह- स्थितिकल्पो - नित्यमर्यादा । इति गाथार्थः ॥१७/२॥
कल्पः
-
-
आचेलक्कु १ सय २ सिज्जायर ३ रायपिंड ४ किइकम्मे ५ । वय ६ जेट्ठ ७ पडिक्कमणे ८ मासं ९ पज्जोसवण १० कप्पो ॥१७ /६ ॥ (छाया- आचेलक्य १ औद्देशिक २ शय्यातर ३ राजपिण्ड ४ कृतिकर्मणि ५ । व्रत ६ ज्येष्ठ ७ प्रतिक्रमणे ८ मासः ९ पर्युषणं १० कल्पः || १७ /६॥)
वृत्तिः - दशधौघतः कल्प इत्युक्तं, अथ तद्दर्शनायेदमाह - 'आचेले 'त्यादि, अविद्यमानं चेलं वस्त्रं यस्यासावचेलकस्तद्भाव आचेलक्यं, उद्देशेन - साधुसङ्कल्पेन निर्वृत्तमौद्देशिकं-आधाकर्म, शय्यया - वसत्या तरति संसारसागरमिति शय्यातरः स च राजा च नृपश्चक्रवर्त्यादिस्तयोः पिण्डः - समुदानमिति शय्यातरराजपिण्डः, कृतिकर्म-वन्दनकं, एतेषां च समाहारद्वन्द्वत्वात्सप्तम्येकवचनं, ततश्चाचेलक्यादिषु यथास्वं विधिनिषेधाभ्यां स्थितास्थिताः साधवो भवन्तीत्यतोऽयमोघकल्पः, एतेष्वेव च प्रथमचरमजिनसाधवः स्थिता एवेति स्थितकल्पः तेषां, तथा व्रतानि - महाव्रतानि, ज्येष्ठो - रत्नाधिकः, प्रतिक्रमणं-आवश्यककरणं, सप्तम्येकवचनं प्राग्वत्, मासमिति प्राकृतत्वादनुस्वारः परि-सर्वथा वसनं - एकत्र निवासो निरुक्तविधेः पर्युषणं एतद्द्वयलक्षणः कल्प - आचारो मासपर्युषणकल्पः, तत्र च स्थिता - स्थितेत्यादि प्राग्वत् । इति गाथासमासार्थः ॥ १७/६॥'
गुरुर्द्वादशविधतपांसि समाचरति । तेषां स्वरूपं प्रथमषट्त्रिशिकावृत्तावुक्तम् । गुरुः षडावश्यकानि सम्यग् जानाति प्ररूपयति करोति च । तेषां स्वरूपं वर्णितं चतुर्थषट्त्रिशिकावृत्तौ । इत्थं गुरोः षट्त्रिशद्गुणा भवन्ति । अस्य वृत्तस्य भावार्थः पूर्वं प्रवचनसारोद्धारगतगुरुगुणषट्त्रिशिका प्रतिपादनावसरे ५४९तम वृत्ततद्वृत्त्योः प्रोक्तः । ॥६०६॥
'अट्ठदस' इत्यादि । गुरुरष्टादश पापस्थानानि त्यजति । तेषां स्वरूपं निरूपितमेकोनविंशतितमषट्त्रिशिकावृत्तौ । गुरुर्द्वादश भिक्षुप्रतिमा धारयति । तासां स्वरूपं