________________
१०९०
षड्व्रतानि वणितं षोडशषट्त्रिशिकावृत्तौ । गुरुः षड्वतरक्षणे धीरो भवति । षड्व्रतानां स्वरूपमेवमुक्तं पाक्षिकसूत्रे तद्वृत्तौ च -
'तं जहा - सव्वाओ पाणाइवायाओ वेरमणं ।१ सव्वाओ मुसावायाओ वेरमणं ।२ सव्वाओ अदिन्नादाणाओ वेरमणं ।३ सव्वाओ मेहुणाओ वेरमणं ।४ सव्वाओ परिग्गहाओ वेरमणं ५ सव्वाओ राइभोयणाओ वेरमणं ॥६॥
(छाया- तद्यथा - सर्वस्मात् प्राणातिपाताद् विरमणम् ।१ सर्वस्मात् मृषावादाद् विरमणम् ।२ सर्वस्माद् अदत्तादानाद् विरमणम् ।३ सर्वस्मात् मैथुनाद् विरमणम् ।४ सर्वस्मात् परिग्रहाद् विरमणम् ।५ सर्वस्मात् रात्रिभोजनाद् विरमणम् ॥६॥)
वृत्तिः - तद्यथेत्युपदर्शनार्थः, सर्वस्मान्निरवशेषात्रसस्थावरसूक्ष्मबादरभेदभिन्नात्कृतकारितानुमतिभेदाच्चेत्यर्थः, अथवा द्रव्यतः षड्जीवनिकायविषयात्, क्षेत्रतस्त्रिलोकसम्भवात्, कालतोऽतीतादे रात्र्यादिप्रभवाद्वा, भावतो रागद्वेषसमुत्थात् प्राणानामिन्द्रियोच्छासायुरादीनामतिपातः प्राणिनः सकाशाद्विभ्रंशः प्राणातिपातः प्राणिप्राणवियोजनमित्यर्थः, तस्माद्विरमणं सम्यग्ज्ञानश्रद्धानपूर्वकं निवर्तनमिति ॥१॥ तथा सर्वस्मात्सद्भावप्रतिषेधा १ ऽसद्भावोद्भावना २ र्थान्तरोक्ति ३ गर्दा ४ भेदात्कृतादिभेदाच्च, अथवा द्रव्यतः सर्वधर्मास्तिकायादिद्रव्यविषयात्, क्षेत्रतः सर्वलोकालोकगोचरात्, कालतोऽतीतादे राज्यादिवर्तिनो वा, भावतः कषायनोकषायादिप्रभवात् मृषाऽलीकं वदनं वादो मृषावादस्तस्माद्विरमणं विरतिरिति ॥२॥ तथा सर्वस्मात्कृतादिभेदादथवा द्रव्यतः सचेतनाचेतनद्रव्यविषयात्, क्षेत्रतो ग्रामनगरारण्यादिसम्भवात्, कालतोऽतीतादे रात्र्यादिप्रभवाद्वा, भावतो रागद्वेषमोहसमुत्थात्, अदत्तं स्वामिनाऽवितीर्णं तस्याऽऽदानं ग्रहणमदत्तादानं तस्माद्विरमणमिति ॥३॥ तथा सर्वस्मात्कृतकारितानुमतिभेदात् अथवा द्रव्यतो दिव्यमानुषतैरश्चभेदात्, रूपरूपसहगतभेदाद्वा, क्षेत्रतत्रैलोक्यसम्भवात्, कालतोऽतीतादे रात्र्यादिसमुत्थाद्वा, भावतो रागद्वेषप्रभवात्, मिथुनं स्त्रीपुंसद्वन्द्वं तस्य कर्म मैथुनं तस्माद्विरमणमिति ॥४॥ तथा सर्वस्मात्कृतादेरथवा द्रव्यतः सर्वद्रव्यविषयात्, क्षेत्रतो लोकसम्भवात्, कालतोऽतीतादे रात्र्यादिप्रभवाद्वा, भावतो रागद्वेषविषयात् परिगृह्यते आदीयते परिग्रहणं वा परिग्रहस्तस्माद्विरमणमिति ॥५॥ तथा सर्वस्मात्कृतादिरूपादिवा गृहीतं दिवा भुक्तम् १ दिवा गृहीतं रात्रौ भुक्तम् २ रात्रौ गृहीतं दिवा भुक्तम् ३ रात्रौ गृहीतं रात्रौ भुक्तमिति ४ चतुर्भङ्गरूपाच्चेत्यर्थः । अथवा द्रव्यतश्चतुर्विधाहारविषयात्, क्षेत्रतः समयक्षेत्रगोचरात्, कालतो रात्र्यादिसम्भवात्, भावतो रागद्वेषप्रभवात् रात्रिभोजनात् रजनीजेमनाद्विरमणमिति ।'