SearchBrowseAboutContactDonate
Page Preview
Page 300
Loading...
Download File
Download File
Page Text
________________ चतुर्दश भूतग्रामाः १०९१ इत्थं गुरोः षट्त्रिंशद्गुणा भवन्ति ॥६०७॥ 'दुगवीस' इत्यादि । गुरुविंशतिं परीषहान् सहते । तेषां स्वरूपं प्रदर्शितं षड्विशतितमषट्विशिकावृत्तौ । गुरुश्चतुर्दशभूतग्रामाणां जीवसमुदायानां रक्षणे तत्परो भवति । चतुर्दशभूतग्रामाणां स्वरूपमेवं विवेचितं श्रमणप्रतिक्रमणसूत्रे आवश्यकनियुक्तिवृत्तौ च - 'चउदसहिं भूअगामेहि' (छाया- चतुर्दशभिः भूतग्रामैः ।) वृत्तिः - चतुर्दशभिर्भूतग्रामैः, क्रिया पूर्ववत्, भूतानि - जीवास्तेषां ग्रामाः-समूहा भूतग्रामास्तैः, ते चैवं चतुर्दश भवन्ति - एगिदिय सुहुमियरा सण्णियर पणिदिया य सबीतिचऊ । पज्जत्तापज्जत्ता भेएणं चोद्दसग्गामा ॥१॥ (छाया- एकेन्द्रियाः सूक्ष्मेतराः सञ्जीतराः पञ्चेन्द्रियाश्च सद्वित्रिचतुरिन्द्रियाः । पर्याप्तापर्याप्त-भेदेन चतुर्दशग्रामाः ॥१॥) एकेन्द्रियाः-पृथिव्यादयः सूक्ष्मेतरा भवन्ति, सूक्ष्मा बादराश्चेत्यर्थः, सञ्जीतराः पञ्चेन्द्रियाश्च, सञ्जिनोऽसज्ञिनश्चेति भावना, 'सबीतिचउत्ति सह द्वीन्द्रियत्रीन्द्रियचतुरिन्द्रियैः, एते हि पर्याप्तकापर्याप्तकभेदेन चतुर्दश भूतग्रामा भवन्ति, स्थापना चेयं - ए०सू०अप० ए०सू०प० ए०बाद०अप० ए०बा०प० बे०अप० बे० प० ते०अप० ते० प० च०अप० च० प० असं०अप० असं०प० । सं०अप० सं०प० एवं चतुर्दशप्रकारो भूतग्रामः प्रदर्शितः, अधुनाऽमुमेव गुणस्थानद्वारेण दर्शयन्नाह सङ्ग्रहणिकारः - मिच्छदिट्ठी सासायणे य तह सम्ममिच्छट्ठिी य । अविरयसम्मट्टिी विरयाविरए पमत्ते य ॥१॥ तत्तो य अप्पमत्तो नियट्टिअनियट्टिबायरे सुहुमे । उवसंतखीणमोहे होइ सजोगी अजोगी य ॥२॥
SR No.022277
Book TitleGurugun Shattrinshtshatrinshika Kulak Part 03
Original Sutra AuthorN/A
AuthorRatnabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year2014
Total Pages402
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy